Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरा संस्कृत टीका
शुक्षुर्व-प्रायमविज्ञातार्थमध्ययनम् -
अर्थादपुनर्बंधकं प्रति कृत उपदेश: सफलः, अर्थ ज्ञातुमुपेक्षा कार्या, केवलं सूत्राध्ययनं कार्यमेतत्तु शुष्केक्षुचर्वण - प्रायं ततो रसमाधुर्यं कुतो लभेत, रसतुल्योऽत्र सूत्रार्थः, सूत्रार्थाध्ययनमस्ति, अत्र श्रवण-मनन- चिन्तन - परिशीलनादि ज्ञेयं, स खलु प्रीणयत्यन्तरात्मानं ततः संवेगादिसिद्धेः, अन्यथात्वदर्शनात्,
अर्थस्योपेक्षा महाकल्याणविरोधिनी
अस्माकं एष चैत्यवंदनसूत्राणामर्थव्याख्यानप्रयासः, एतदर्थबोधकारणाय, विद्यते, ततः एतस्य कृतस्य प्रयासस्य प्रतिकूलं किश्चिदपि न कर्तव्यम् । अर्थादेतस्यार्थव्याख्यानस्योपेक्षाsयाद न कर्तव्यम्, अस्य निन्दातिरस्कारान्यान्तरायादि, किमपि न कार्यम्, अर्थव्याख्याने कथितभव्यभावापेक्षया अर्थव्याख्यानं तु सहजसुन्दरं चिन्तामणिरत्नसमानं, संवेगोत्पादकं वर्तते, ततस्तस्य विरोधऽस्तु महाकल्याणविरोधोऽस्ति ततोऽस्य विरुद्धं किञ्चिदपि न धारणीयम् ।
चिन्तामणिरत्नेऽपि सम्यग् ज्ञातगुण एव श्रद्धाद्यतिशयभावतोऽविधिविरहेण महाकल्याणसिद्धिरित्यलं प्रसङ्गेन ॥ श्लोकस्य भावार्थ :
(१) चैत्यवन्दनसूत्रस्य ललितविस्तरानामिका वृत्तिः (विवेचनरूपा ) प्रामाणिक - समीचीनयुक्ति–न्यायादिसंगता, आचार्यहरिभद्रसूरीश्वरेण दृब्धा (रचिता) वर्तते.
(२) यः पुरुषः, मध्यस्थेनाऽन्तरात्मना उच्चैरेनां वृत्ति (ललितविस्तरानामिका वृत्ति) भावयति-अतिशयेन भावनाविषयां करोति सोऽवश्यं वन्दनां (चैत्यवंदनां) - भावरूप - चैत्य - वंदन, अथवा भावचैत्यवंदनाया: सुबीजं - सम्यक्त्वसहितां चैत्यविषयक भाववन्दनां नियमादधिगच्छति. (३) परस्य (परग्रन्थस्य, तद्चयितुः ) अभिप्राय - आशयं अज्ञात्वा - अबुद्धवा, तत्कृतस्य- परकृतस्य (वस्तुन: - पदार्थस्य ) गुणसहित दोषौ - दोषसहितगुणौ गुणदोषौ सता - सज्जनधर्मवत्ता पुरुषेण न वाच्यौ - कथनीयौ परन्तु तत्र प्रश्न एव युज्यते .
(४) १ - आत्मानो बोधार्थ - परीक्षार्थी अन्यः - परः प्रष्टव्यः,
"2
99
17
""
19 "
२ - परस्य ३ - ज्ञानस्याभिवृद्धयर्थं
४ अथवा संशयस्य त्यागार्थं परः प्रष्टव्यः,
"
१९१
""
99 7
(५) एनां ललितविस्तरानामिकां वृत्ति, कृत्वा - रचयित्वा बदर्जितं पुण्यं मया शुभ
भावतः तेनास्तु सर्वसत्त्वानां परो मात्सर्यविरहो, उत्कृष्टमात्सर्याभावो भक्तु.
"
"
Loading... Page Navigation 1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550