Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललित विस्तरासंस्कृतटीका
१८९
निमित्तमेव गमनं, न तु प्रस्थकनिमित्तं तथाऽप्यनेकप्रकारवस्त्वभ्युपममपरत्वात् कारणे कार्योपचारात्, तथाव्यवहारदर्शनादेवमप्यभिधत्तेऽसौ - प्रस्थकस्य गच्छामीति तं च कश्चित् छिन्दन्तं, वृक्षमिति गम्यते, पश्येद्, दृष्ट्वा च वदेत् किं भवच्छिनत्ति ? ततः प्राक्तनाद् किञ्चिद्विशुद्धनैगमनयमतानुसारी सन्नसौ भणति - प्रस्थकं छिनद्म, अत्रापि कारणे कार्योपचारात् तथाव्यवहृतिदर्शनादेव काष्ठेऽपि च्छिद्यमाने प्रस्थकं छिनद्मीत्युत्तरं केवलं काष्ठस्य प्रस्थकं प्रति कारणता भावस्वाऽत्र किञ्चिदासन्नत्वाद्विशुद्धत्वं प्राक् पुनरतिव्यवहितत्वात् मलीमसत्वम्, एवं पूर्वपूर्वापेक्षा यथोत्तरस्य विशुद्धता भावनीया, नवरं तणुवन्तं - तनू कुर्वन्तम्, उत्किरन्तं वेधनकेन मध्याद् विकिरन्तं विलिखन्तं - लेखिन्या मृष्टं कुर्वाणम्, एवमनेन प्रकारेण तावनेयं यावद् विशुद्धतरनैगमस्य 'नामाउडिउ'ति आकुट्टितनामा प्रस्थकोऽयमित्येवं नामाङ्कितो निष्पन्नः प्रस्थक इति. )
अर्थात् एवं प्रस्थकाकार-निर्माण- प्रवृत्तौ कुठारादि- प्रवृत्तिवद्, अपुनर्बन्धकस्य देवादिविषयकोपासनायाः प्रवृत्तिः सदोषाऽपि कदाग्रहरहितत्वेऽपि सदाशयवत्त्वेन समप्रतया शुद्धधर्म प्रति प्रमात्येव किन्तु धर्माधिका न ( धर्मस्य दूरस्था कारणसैतादृशी देवप्रणामादिप्रवृत्तिः पतिताऽस्ति, हिंसादि - विषय - परिग्रहादिप्रवृत्तिस्था, नास्ति, तदर्थ नैगमनयेनाऽपि सत्प्रवृतिरस्ति . )
"
तत्वाविरोधिहृदयस्य महत्त्वम्
अस्य - अपुनर्बधकस्य हृदयं तत्त्वाविरोधि-तत्त्वानुकूलं वर्त्तते, तत एतादृशात्, हृदयात् समन्तभद्रता - सर्वतः कल्याणरूपता वर्त्तते, यतः सर्वा प्रवृत्तिरस्य हृदयपूर्विकैब, एवं ( यथा प्रस्थकज्ञातं तथा) जैनदर्शनतो विनिर्गतततद् - दर्शनानुसारतः सर्वमिह योग्य, 'सुतमण्डित - प्रबोध - दर्शनादि', एवं प्रवर्तमामोऽपुनर्बन्धक इष्टसाधको न भवतीति न अपितु भवत्येव, कदाचित् स्वाचाशद् भ्रष्टोऽपि मग्नोऽपि एतद्यानलिङ्गोऽपुनर्बन्धकः, इति तं प्रत्युपदेश - साफल्यम् ।
"ना निवृत्ताधिकारायां प्रकृतावेवंभूत इति कापिलाः, न अनवाप्तभवविपाक इति च सौगताः, अपुनर्बन्धकास्त्वेवंभूता इति जैनाः, तच्छ्रोतव्यमेतदादरेण, परिभावनीयं सूक्ष्मबुद्ध्या, शुष्केण प्रायमविज्ञातार्थमध्ययनं रसतुल्यो ह्यत्रार्थः, स खलु प्रीणयत्यन्तराख्यानं, ततः संवेगादिसिद्धेः, अन्यथात्वदर्शनात् तदर्थ चैव प्रयास इति न प्रारब्ध - प्रतिकूलमा सेवनीयं, प्रकृतिसुन्दरं चिन्तामणिरश्न - कल्पं संवेगकार्य चैतदिति महाकल्याणबिरोधि, न चिन्तनीयम्, 'चिन्तामणिरत्नेऽपि सम्यग्ज्ञातगुण एव श्रद्धाद्यतिशयभावतोऽविधिविरहेण - महाकल्याणसिद्धिरित्यलं
2
प्रसङ्गेन ।”
,
Loading... Page Navigation 1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550