Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 536
________________ १८८ ललितविस्तरासंस्कृतटीका (३३) वर्तितव्यमुत्तमज्ञातेन-उत्तमपुरुषाणां दृष्टान्तमादर्श गृहीत्वा, उत्तमपुरुषनिष्ठप्रबलसत्त्व-पराक्रमादिगुणानालम्ब्य, लक्ष्यं सम्मुखीकृत्य, निश्चितसिद्धान्तानुसारिणी सत्क्रिया कार्या । एवं त्रयस्त्रिंशत् कर्तव्यान्यादरणीयानि. तथा च 'अपुनर्बन्धकप्रवृत्तिरेव ' सत्प्रवृत्तिः यः, एतैस्त्रयस्त्रिंशद् कर्त्तव्याख्य-गुणैः सम्पन्नोऽस्ति, तस्य देवप्रणामादिप्रवृत्तिःसर्वैव साध्वी, न मिथ्या, यतो कदाग्रहरहितत्वेन सदाशयसत्त्वेन, ज्ञाताऽज्ञातरूपेण शुद्धदेवादि-तत्त्वविषयक प्रवृत्ति प्रति प्रयाणं प्रवर्ततेऽवश्य प्रयाणेऽग्रतो वर्धित्वा शुद्धदेवादिविषयकोपासनां प्राप्स्यति. पूर्वोक्त-गुणसम्पन्नो जीवो मार्गानुसारी कथ्यते, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति मोक्षमार्ग प्रति, अनुसरणकारी, अस्ति यतः सम्यग्दर्शने वस्तुद्वयं वर्तते, (१) भवनिर्वेदः (२) जिनोक्ततत्त्वरुचिरप्यस्ति, अतो वस्तुद्वयेन, सांसारिकप्रवृत्तित्यागद्वारा, एष विशिष्टविवेकप्राप्तिमार्गस्थः कथ्यते, ईदृशोऽयं जीवः पूर्वोक्त-कर्त्तव्यगुणानाश्रित्य नियमादपुनर्बन्धकादिकक्षा प्राप्तवान् , तत्र मिथ्यात्वमान्यं ततो गुणसम्पत्प्राप्तिः एतद्गुणसम्पन्नजीवद्वारा, शुद्धतत्त्वाभिलाषेण क्रियमाणा, देवपूजादि-प्रवृत्तिः, प्रथमत एव समग्रताऽपेक्षया सत्प्रवृत्तिरेव. अतः आदित आरभ्याऽस्य प्रवृत्तिः, सत्प्रवृत्तिरेव, नैगमानुसारेण चित्राऽपि प्रस्थकप्रवृत्तिकल्पा, तदेतदधिकृत्याहुः- “कुठारादिप्रवृत्तिरपि रूपनिर्माण-प्रवृत्तिरेव" । 'कुठारे ' त्यादि, कुठारादिप्रवृत्तिरपि-कुठारादौ प्रस्थकोचितदारुच्छेदोपयोगिनि शस्त्रे प्रवृत्तिः घटनदण्डसंयोगनिशातीकरणादिकाऽपि, आस्तां प्रस्थकोत्किरणादिका "रूपनिर्माणप्रवृत्तिरेव " प्रस्थकाद्याकारनिष्पत्तिव्यापार एव, ऊपकरणप्रवृत्तिमन्तरेण, उपकर्त्तव्यप्रवृत्तेरयोगात् "तद्वत्" । कुठारादिप्रवृत्तिवद्रूपनिर्माणे, अपुनर्बन्धकस्य धर्मविषये या प्रवृत्तिः देवयोगात् प्रणामादिका सदोषाऽपि सा "कास्न्येन" सामस्त्येन “तद्वामिनी" धर्मगामिनी 'न तु' न पुनः “ तद्बाधनी " धर्मषाधिका 'इति ' एवं “ हार्दा " ऐदंपर्यन्तगवेषिणः, आहुरितिशेषः, (प्रस्थकदृष्टांत दर्शयति तद्यथानामकः कश्चित् , पुरुषः, परशु-कुठारं गृहीत्वा, अटवीमुखो गच्छेदित्यादि, इदमुक्तं भवति–प्रस्थको-मागधदेशप्रसिद्धो धान्यमानविशेषस्तद्धेतुभूतकाष्ठकनाय कुठारव्यग्रहस्तं तक्षादिपुरुष, अटवीं गच्छन्तं दृष्ट्वा कश्चिदन्यो वदेत् -के भवान् गच्छति ! तत्राविशुद्धनैगमो भणति-अविशुद्धनैगमनयमतानुसारी सन्नौ प्रत्युत्तरयतीत्यर्थः, किमित्याह-प्रस्थकस्य गच्छामि, इदमुक्तं भवति-नके गमा वस्तुपरिच्छेदा यस्य, अपि तु बहवः स निरुक्तवशात् ककारलोपतो नैगम उच्यते, अतो यद्यप्यत्र प्रस्थककारणभूतकाष्ठ

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550