Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
श्री-भरूचतीर्थ-इतिहासाष्टकम् कारुण्य-पुण्यमहिमातिशयैर्वरेण्यं, कल्याणकोटिकरणं शरणं शरण्यम् । वन्देऽथ विंशतितमं शिवदं जिनेन्द्र, श्रीदं विदं च मुनिसुव्रतमाश्रितेन्द्रम् ॥१॥ श्रीजैनशासनिसुमुख्यमतीन्द्रमन्त्री, श्री अम्बडो जनकभक्तिवशोन्महान्तम् । प्रासादमेव भृगुकच्छपुरे नवीनं, चक्रे बुधो नवशताब्दक-पूर्वकाले ॥२॥ (व. ति.) तज्जीर्णोद्धतये कृतो विनयतः, सङ्घन विज्ञप्तिका, श्रीमद्विक्रमसूरये भगवते, प्राक्तीर्थसद्भक्तितः । स्वीचक्रे वरमरिणा समुनिना, कार्य प्रवृत्तं ततः, जातःसनिहितो हितो धननिधिः, सर्वत्र सद्बोधतः ॥३॥ (शा. वि.) जीर्णोद्धारःप्रवृत्तःप्रवरतुरगबोधाख्यतीर्थे समर्थ, जातं नव्यं सुमेहं नयनसुभगभक्तामरस्तोत्रगोत्रम् । दृष्ट्वा भव्या अनेके प्रमुदितमनसस्तुष्टुवुनित्यपाठ, सूरीशं विक्रमाख्यं मुनिगणवृषभं सत्प्रभावात्प्रभूतम् ॥४॥ स्वर्गप्रस्थानमाप्तो हृदयगतकृपाऽऽशीर्वचोवर्षकारी, विख्यातो विक्रमाख्यो जगति जयति यः कार्यपूर्णत्वकारी । कल्याणीयं प्रतिष्ठाऽअनसहितशलाकासमृद्धा प्रवृत्ता, तत्राद्वैतो ममोचोऽद्भुततमसुमहः पञ्चकल्याणकीयः ॥५॥ (स्रग्धरावृत्तम् ) अद्भुताऽभूतपूर्वे, विमाने मुनिसुव्रतचारु चैत्ये, प्रचलितप्रतिष्ठोत्सवेत्राहो जनप्रवाहो बहुः ॥६॥ प्रतिष्ठाचार्यनवीन सूरेनवाचार्यादिनिश्रायम् । सर्वोत्कृष्ट सर्व, घरघोटकजेमनविधिविधानादि ॥७॥ राजयशःपरिमार्ग-दर्शकमार्गदर्शनादि सर्वत्र । राजद्वभूव यशस्वि, तल्लब्धिविक्रमाशीः फलम् ॥८॥ शरवेदद्विसहस्र-प्रमिते वैक्रमे संवत्सरे शुभे । जयति सति लब्धिसङ्घ, प्रतिष्ठा तेजःस्फूतिमती ॥९॥ ...
(प्रशस्ति ) सकुनिका विहारतीर्थ-जीर्णोद्धारमहिमाष्टकम् । व्यर चि भुवनतिलकाऽऽचार्य शिष्यभद्रकरसरिणा ॥ (आर्या)
Loading... Page Navigation 1 ... 545 546 547 548 549 550