Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 533
________________ ढलितविस्तरासंस्कृतटीका (४) न लङ्घनीयोचितस्थितिः उचितमर्यादा न लङ्घनीया सर्व-मर्यादासु, अन्यैः सह व्यवहारे व्यवसाये चानुचिता-चरणेऽनेकेऽना भवन्ति, धर्मस्य मूलं हन्यते, दोषाणां पोषणं भवत्यतोऽनुचितं वचो विचारश्च वर्तनं न कर्त्तव्यम् । (५) अपेक्षितव्यो लोकमार्गः लोकमार्गस्यापेक्षा रक्षणीया, उपेक्षा न कदाचित्कार्या, शिष्टाचारस्यानाचरणे लोकेऽस्माकं च धर्मस्य निन्दा भवेत्, धर्मनिन्दका रक्का भवान्तरेऽपि दुर्लभबोधिमन्तो भवेयुः । ___ (६) माननीया गुरुसंहतिः=गुरुवर्गस्य बहुमानं कर्त्तव्यम् , गुरूणां मान्यत्वेनाऽस्मदीये मानसे गुरुत्वं, तेनानुचितवर्तनादिकार्येभ्यो रक्षित आत्मा भवति, पूज्यपूजायाः, व्यतिक्रमबन्यमहापापाऽभावः स्यात् । (७) भवितव्यमेतत्तन्त्रेण गुरुवर्गाधीनेन भाव्यम् , स्वच्छन्दविहारः, आज्ञाभङ्गः, स्वमतिः(मन्तव्यम् ) औद्धत्यं, अविचारितकार्य मिथ्यासाहसं इत्यादिकानास्त्याज्याः । (८) प्रवर्तितव्यं दानादौ उचित-दया-पात्रदानादिद्वारा, औदार्य-परोपकारः-परार्थवृत्तिः-लोकप्रियता-चित्तस्वास्थ्यादिगुणाः पोषणीया, एवं शील-व्रत-तपोभावेषु प्रवर्तनद्वारा, विषयान्ध्याऽसहिष्णुता-बुभुक्षुत्व-दुराचारादि-दोषेभ्यो रक्षणीय आत्मा । (९) कर्तव्योदारपूजा भगवतांउदारः-सम्यक्तया धनव्ययं कृत्वा भगवद्भक्तिकरणेन, धनाद् विभु महान् -महामूल्यवानस्ति, एवं मतेन भगवन्नकटयं याति, भगवन्तं प्रति सत्यश्रद्धा-प्रीतिर्वर्धते, उदारपूजनया, महाकृतज्ञता-गुणस्य पालनं भवति यतः, एषोऽनन्योपकारित्वेनैतत्प्रभावेणाऽस्मत्प्राप्त-धनादिकस्य धरणं चरणयोरेषा कृतज्ञता, वर्धमानेन भगवद्रागेण भगवतां गुणादर्श नयनसम्मुखं रक्षित्वा गुणार्थकः प्रयत्नः कार्यः ।। (१०) निरूपणीयः साधुविशेषः=गुरुत्वस्य लक्षणैः, विशिष्टसाधो लक्षणानां निरूपणं विधातव्यम् , यतः कुगुरो र्जाले पतनावसरो नागच्छेत्, सुगुरुर्जीवन-मार्गदर्शकः कार्यः, तत्पावतस्तत्त्वमार्गस्य शिक्षाधिगन्तव्या, शक्कासमस्यानां समाधान प्राप्तव्यम् । सुसाधूनामन्वेषण विशिष्ठमुनीनां शोधनमावश्यकमेव. । - (११) श्रोतव्यं विधिना धर्मशास्त्रम् =विधिमनतिक्रम्य सद्गुरूणां पार्श्वतः धर्मप्रधानं धर्मशानं श्रोतव्यं-श्रोत्रविधीकर्तव्यम्, आत्मज्ञान-करीब्वशिक्षादि-प्राप्तितोऽनन्तसुख-मोक्षमार्ग उदयाटितो भवति । २.

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550