Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृत टीका
तत्त्वाविरोधकं हृदयमस्य ततः समन्तभद्रता, तन्मूलत्वात्सकलचेष्टितस्य, एवमतोऽपि विनिर्गततत्तद्दर्शनानुसारतः सर्वमिह योज्यं,
१८२
सुप्तमण्डितप्रबोधदर्शनादि, न ह्येवं प्रवर्त्तमानो नेष्टसाधक इति, भग्नोऽप्येतद्यत्त्रलिङ्गोऽपुनर्बन्धक इति तं प्रत्युपदेशसाफल्यं नानिवृत्ताधिकारायां प्रकृतावेवंभूत इति कापिलाः, न अनवाप्तभवविपाक इति च सौगताः, अपुनर्बन्धकास्त्वेवंभूता इति जैनाः, तज्छोतव्यमेतदादरेण परिभावनीयं सूक्ष्मबुद्ध्या, शुष्केक्षुचर्वणप्रायमविज्ञातार्थमध्ययनं रसतुल्यो ह्यत्रार्थः, स खलु प्रीणयत्यन्तरात्मानं, ततः संवेगादिसिद्धेः, अन्यथात्वदर्शनात्, तदर्थं चैष प्रयास इति न प्रारब्धप्रतिकूलमासेवनीयं प्रकृतिसुन्दरं चिन्तामणिरत्न कल्पं संवेगकार्यं चैतदिति महाकल्याणविरोधि न चिन्तनीयं चिन्तामणिरत्नेऽपि सम्यग्ज्ञातगुण एव श्रद्धाद्यतिशयभावतोऽविधिविरहेण महाकल्याणसिद्धिरित्यलं प्रसङ्गेन ॥
आचार्य हरिभद्रेण दृब्धा सन्न्यायसङ्गता । चैत्यवन्दनसूत्रस्य वृत्तिर्ललितविस्तरा ॥ १ ॥ य एनां भावयत्युच्चैर्मध्यस्थेनान्तरात्मना । सदनां सुबीजं वा नियमादधिगच्छति ॥२॥ पराभिप्रायमज्ञात्वा तत्कृतस्य न वस्तुनः । गुणदोषौ सता वाच्यौ, प्रश्न एव तु युज्यते ॥ ३ ॥ प्रष्टव्योऽन्यः परीक्षार्थमात्मनो वा परस्य च । ज्ञानस्य वाsभिवृद्ध्यर्थं त्यागार्थं संशयस्य च ॥ ४॥
Loading... Page Navigation 1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550