Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
१८०
ललितविस्तरासंस्कृत टीका
संदिग्धसहजस्थिररूपतया संज्ञातुं बुद्धिशक्ति वर्धमानां कर्तुमावश्यकत्वम् , एषा, चित्तस्य शोधनप्रकृत्या, तन्मयतया च गम्भीरावगाहनेन साध्या, एतादृश्याः प्रज्ञाया उत्तरोत्तरविकासेन कैवल्यसाधकसामर्थ्ययोगासनानुष्ठानविषयकप्रज्ञा-पर्यन्तं गम्यते.
दीर्घकालं निरन्तरसत्कारासेवने प्रणिधानद्वारा श्रद्धा-वीर्यादे वृद्धिभवनेन सकलोपाधीनां ( विशेषणानां ) शुद्धिर्भवतीत्येतद्वस्तु, व्यतिरेकेणैवं कथ्यते. यत्रैतद् दीर्घकालनिरंतराद्यासेवनं नास्ति, तत्र सर्वोपाधिवृद्धि न भवति, अस्य दृष्टांते एवं दर्शाते, समग्रसुखभाग् , तदंग (तस्य सुखस्य) साधनभूतैरङ्गै हीनो-रहितो न भवेत् , यतः साधनानां न्यूनतयाऽपि कार्यसिद्धौ, ( तद्भावे ) अहेतुकत्व-प्रसङ्ग आयाति, न चैतदेवं भवतीति योगाचार्य दर्शनं (न्यायदर्शनं ) " सेयं भवजलधिनौः प्रशान्तवाहितेति परैरपि गीयते” अर्थात् संसारसागरं तरीतुं नौकास मानमेतत् प्रणिधानम् 'प्रशान्तवाहिते' ति गीयते.
"प्रशान्तवाहितावृत्तेः, संस्कारात्स्यान्निरोधतः ।
पादुर्भावतिरोभावौ तद्वत्युत्थानजयोरयम् ।।" अध्यात्मचिन्तका एवं कथयन्ति, अस्य-प्रणिधानस्य सदुपदेशः, अज्ञात-(तत्त्वमार्ग)स्य ज्ञापनरूपफलवान् भवति, एकान्तेन हृदयानन्दकारी परिणमति, परंतु तत्त्वमार्गे ज्ञाते सति तु प्रणिधानभावोऽखण्डितो भवति, अनाभोगतोऽपि (ज्ञानाभावेनाऽपि) मार्गगमनमेव 'सदन्धन्यायेन ' यथा कश्चिद् सावधानः सन् , अन्ध-पुरुषः, मार्गदर्शनाऽभावेऽपि स्वभावतश्च सद्भाग्येन मार्गे गच्छति-द्रव्यतः स्खलितत्वेऽपि भावतोऽस्खलितमार्गे गमनमेव.
(इदमेव व्यतिरेकतः प्रतिवस्तूपन्यासेनाह-'न' नैव 'हिः' यस्मात् 'समग्रसुखभाक' सम्पूर्ण-वैषयिकशर्मसेवकः 'तदङ्गहीनः ' तस्य समग्रसुखस्याऽङ्गानि हेतवो वयोवैचक्षण्यदाक्षिण्यविभवौदार्यसौभाग्यादयस्तै ीनो-रहितो भवति, विपक्षे बाधकमाह ' तवैकल्येऽपि ' तदङ्गाभावेऽपि तद्भावे' समग्रसुखभावे 'अहेतुकत्वप्रसङ्गात् ' निर्हेतुकत्वप्राप्तेरिति 'सेय'मिति, प्रणिधानलक्षणा 'प्रशान्तवाहितेति' प्रशान्तो-रागादिक्षयक्षयोपशमवान् वहति-वर्त्तते तच्छीलश्च यः स तथा तद्भावस्तत्ता)
अथ शास्त्रकारः प्रणिधानपर्यन्तं चैत्यवंदनं ततः, आचार्यादिवंदनां, एवं दर्शयित्वा पुरुषो यथोचितं कर्त्तव्यं करोति. एवं अपि प्रदर्श्य ततः एतद्द्वस्तु सिद्धयर्थ सद्बोधविषयक-प्रवाहं वाहयित्वा चैत्यवंदनव्याख्यानस्य माहात्म्यं कथयित्वा ग्रंथस्य विरहशब्देन समाप्तिं करोति.
Loading... Page Navigation 1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550