Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
१७९
ललितविस्तरासंस्कृतटीका तेन श्रद्धा-शुद्धमार्गरुचिः, वीर्यम्-अनुष्ठानशक्तिः, स्मृतिः-अनुभूतार्थविषया ज्ञानवृत्तिः, समाधिः-चित्तस्य स्वास्थ्य, प्रज्ञा-बहुबहुविधादिगहनविषयाऽवबोध-शक्तिस्तासां वृद्धया-प्रकर्षेण, अनासेवित-सत्कारस्य हि जन्तोरदृष्टकल्याणतया तदाकाङ्क्षाऽसम्भवेन, चेतसोऽप्रसन्नत्वात् श्रद्धादीनां तथाविधवृद्धयभाव इति,
(१) प्रणिधानम् दयादिभावयुक्त-विशुद्धभावनाबलवद्-यत्तत् सुन्दरविषये समर्पितमानसरूपं प्रणिधान सदा जीवजाग्रद्भाव्यम् ।
(२) दीर्घकालसेवनम्=सा सा साधना,जिनपूजाऽहिंसादानादि-क्षमादि-विषयिणी साधना, दीर्घकालं साध्यमाना साधना, संस्कारवर्धिनी तथा साधना, सहज-निर्दोषा देदीप्यमाना भवितुं सामर्थ्य समायाति.
(३) निरन्तरासेवनम्=सा साधना, सततधारावद्धा नियतरूपेण कियमाणा भवेत् , अनियतत्वाभाववती कार्या,
___ (४) सत्कारयुक्तासेवनम् दीर्घकालीनां, धारावद्धां साधनां प्रति हार्दिकोच्चार-सन्मानसद्भावबहुमानवता भाव्यम् .
साधनासमये-श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञावृद्धिपञ्चकं निरीक्षणीयम् ,
(५) श्रद्धावृद्धिः साधनायामेतद् दर्शनीयम् , यं प्रणिधानविशिष्टशुद्धमोक्षमार्ग प्रति श्रद्धा-रुचिः-प्रीतिवर्धमाना कर्त्तव्या, ततोऽग्रत उच्चोच्चतरसाधना भविप्यति,
(६) वीर्यवृद्धिः वर्धमानया श्रद्धया सहैव साधनाविषयकवीर्य-शक्तिविषयकविकासः कार्यः, क्रमेणाभ्यास-वर्घनेन, क्रियागतखेदोद्वेगादिदोषाणां त्यागेन, वीर्यशक्तया वर्धमानया, पराकाष्ठागतसामर्थ्ययोगश्चासङ्गानुष्ठानं प्राप्यते, तत उत्तरोत्तरतः साधनायां वीर्यवृद्धिरावश्यकीति मन्तव्या, ..
(७) स्मृतिवृद्धिः मार्गस्य, तत्त्वस्य, पूर्वपूर्वसाधितस्य च स्मरणं वर्धमानं भवेत् , स्मृतिस्तेजस्विनी कार्या. इन्द्रियविषयाणां विक्षेपाः, विस्मरणानि, मानसिकी निर्बलता दूरतः क्षेप्या. वर्धमानस्मरणेन संस्करणं प्रगाढं भवति. ___(८) समाधिवृद्धिः चित्तस्वास्थ्यस्य वृद्धिः, वर्धमानेन : चित्तस्वास्थ्येन, साधनायामुत्साहरंगो वर्धतेऽतोऽसदाचाराःप्रतिबद्धा भवन्ति, साधनायाःकुशलत्वेनाने महासमाधिः 'अपूर्वकरण' प्राप्यते.
(९) प्रज्ञावृद्धिः श्रद्धादिविकासेन सह साधनायास्तत्त्वस्य च सूक्ष्मविशेषतां ज्ञातुं बुद्धिशक्तिरपि वर्धमाना प्रेक्षणीयेति, अर्थासत्त्वादिविशेष बहुरूपेण बहुविधरूपेण, शीघ्राऽ
Loading... Page Navigation 1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550