Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
१७७
ललितविस्तरासंस्कृतटीका
यदि विघ्नजयो भवेत्तदा फलरूपसिद्धिः फलरूपफलसिद्धिस्तु, अहिंसादि-तात्त्विकधार्मिक-भूमिकायाः प्राप्ति यतोऽधिकगुणवतः प्रति बहुमानादिः, मध्यमगुणवतः प्रति, उपकारस्य भावना, हीनगुणवतश्च प्रति, निर्गुणान् प्रति दयाऽऽदेः प्रवृत्तिर्भवेत् .
यदि फलरूपसिद्धिरस्ति, तदा विनियोगः=अहिंसादि-धार्मिक भूमिका प्राप्ता, तामुपायद्वाराऽन्यान् प्रापयेदिति विनियोगः । इत्येवं पूर्व पूर्व कारणं चोत्तरोत्तरं कार्य ज्ञेयं । आशयाऽनुरूपः कर्मवन्धः" यादृशो भावो वर्त्तते तादृशं फलं 'परिणामे बन्धः' इति नियमोऽस्ति.
अर्थात् , आशयरूपप्रणिधानस्य विपाक-मोक्षरूपफलात् किं कर्मबन्धस्याऽसिद्धि भविष्यतीति शङ्का न कार्या. यतो 'मन एव मनुष्याणां कारण बन्धमोक्षयो' रिति नियमेन कर्मबन्धफलजनकाशयरूपं मनो भिन्नं (पृथग्) यदा मोक्षरूपफलजनकाशय-विशेष-प्रणिधानरूपं मनो भिन्नं (पृथग्) प्रणिधोनरूपाशय-विशेषस्य, विपाक-मोक्षफलात्कर्मवन्धस्यासिद्धि न ।
किञ्चष कर्मवन्धः, युक्त्या चागमेन सिद्धः, अन्यथा कर्मवन्धफलजनकाशयस्य केवलमान्यतायां, मोक्षफलजनकप्रणिधानरूपाशयस्य मन्तव्ययत्वाभावे तु, उपयोगाभाव-प्रयुक्त-प्रवृत्त्यादेरभाव इति प्रवृत्त्यादिजनकप्रणिधानमिदं, अनधिकारिणां न–परन्तु-अधिकारिणामेव.
अस्य प्रणिधानस्याधिकारिणश्च ये वन्दनाया (चैत्यवन्दनाया) ये-उक्ताः, तद्यथाएतद्द्वहुमानिनो विधिपरा उचितवृत्तयश्चोक्तलिङ्गा एव-ये चैत्यवन्दनस्याधिकारिणः पूर्वोक्तास्त एव प्रणिधानस्य ज्ञेयाः,
(१) प्रणिधानबहुमानिनः प्रणिधानरूप-आवश्यकसाधनाया अंगस्योपरि-बहु-अत्यन्तादरभावो भवेद् , कीदृशं वर्त्तते येन प्रवृत्तिरपि फलवती, यदेतत् करोति भाग्यवान् तस्य कियन्महत्तमं पुण्यमुच्चतमं प्रशंसापात्रं भवति, मयैतत् स्पृहणीयं, इत्येतादृशी मानसिकस्थिति, बहुमानं एतादृशबहुमानाऽभावे नास्त्यधिकारिता.
(२) प्रणिधानं प्रति विधितत्परता=सत्यपि बहुमाने कथितविधेरपेक्षा न भवेत्तदा विधिशून्यत्वेन क्रियमाणप्रणिधानं निरर्थकमेक. ___ (३) उचितवृत्तिः स्वकुलोचितजीवनस्य वृत्तिः ।
प्रणिधानलिङ्गं तु विशुद्धभावनादि यथोक्तं" विशुद्धभावनासारं, तदर्थाऽर्पितमानसम् । यथाशक्ति क्रियालिङ्ग, प्रणिधानं मुनिर्जगौ ॥"
Loading... Page Navigation 1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550