Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृतटीका कथमित्याह-दीर्घकालं-पूर्वलक्षादिप्रमाणतया नैरन्तर्येण-निरन्तरायसातत्येन सत्कारस्य-जिनपूजाया आसेवनम्-अनुभवस्तेन श्रद्धा-शुद्धमार्गरुचिः, वीर्यम्-अनुष्ठानशक्तिःस्मृतिः अनुभूतार्थविषया ज्ञानवृत्तिः, समाधिः-चित्तस्वास्थ्य, प्रज्ञा-बहुबहुविधादिगहनविष याऽवबोधशक्ति,स्तासां वृद्धथा-प्रकर्षण, अनासेवितसत्कारस्य हि जन्तोरदृष्टकल्याणतया तदाकाङ्क्षाऽसम्भवेन चेतसोऽप्रसन्नत्वात् श्रद्धादीनां तथाविधवृद्धयभाव इति, इदमेव व्यतिरेकतः प्रतिवस्तूपन्यासेनाह"न" नैव "हिः” यस्मात् “समग्रसुखभाक्” सम्पूर्ण वैषयिकशर्मसेवकः “तदङ्गहीनः” तस्यसमग्रसुखस्याङ्गानि हेतवो वयोवैचक्षण्यदाक्षिण्यविभवौदार्यसौभाग्यादयस्तैहीनो-रहितो भवति, विपक्षे बाधकमाह-" तद्वैकल्येऽपि” तदङ्गाभावेऽपि "तद्भावे" समग्रसुखभावे “ अहेतुकत्वप्रसङ्गात" निर्हेतुकत्वप्राप्तेरिति “ सेय"मिति प्रणिधानलक्षणा “प्रशान्तवाहिते”ति प्रशान्तोरागादिक्षयक्षयोपशमवान् वहति-वर्त्तते तच्छीलश्च यः स तथा तद्भावस्तत्ता ।
टी०....अर्थाद् भवनिर्वेदादिगुणाष्टककल्याणविषयकप्रार्थनारूपं प्रणिधानं, सकलशुभानुष्ठानमूलकारणमेतत् , मोक्षरूपफलकमेव ( नान्यफलकम् ) निदानरहितं, यतः, भौतिकभोग्योपभोग्यपदार्थविषयकप्रार्थना आशंसा-आसक्ति-अभिष्वंगरूप-तल्लक्षणस्याभावो वर्तते, मोक्षकारणप्रणिधानत्वेनासङ्गता (रागद्वेषमोहरागाभावरूपाऽसंगता-वीतरागतादौ सक्त-लमचित्तव्यापारः संकल्पव्यापारः एष महानेव.
"न च प्रणिधानादृते प्रवृत्त्यादयः, एवं कर्त्तव्यमेवैतदिति' ___ अर्थात् प्रणिधानं विना प्रवृत्त्यादयो न भवन्ति, एवं प्रणिधानस्य सत्तायामेव प्रवृत्त्यादीनां सत्ताऽस्तीति प्रणिधानमैवेतत् कर्त्तव्यमेव. यतः प्रणिधानमस्त्यतः (प्रणिधानं स्वतो हीनगुणवति, उपरि, द्वेषं विना तदुपर्युपकारकरणबुद्धिसहितं वर्तमानधर्मस्थानस्य कर्त्तव्यत्वे चित्तोपयोगो रक्षणीयः)
प्रवृत्तिरस्ति, ( प्रवृत्तिः-वर्तमानधर्मस्थानमुद्दिश्य तस्योपायसहितक्रियायां-विधिशुद्धश्च शीघ्रक्रियासमाप्तिं कर्त्तमिच्छारूपमुत्सुकत्वरहितो यस्तीव्रप्रयत्नः साऽत्र प्रवृत्तिः) अतो विघ्नजयोऽस्ति.
( विघ्नजयः धर्मक्रियायामन्तरायनिवारकः परिणामः, स त्रिधा, (१) बुभुक्षा-तृषाऽऽदिपरीषहाः (२) शारीरा रोगाः (३) मनसो भ्रान्तिः, एते त्रयः, धार्मिकप्रवृत्तौ विघ्नरूपाश्च तेषां येन परिणामेन जयो भवति, स विघ्नजयः, साधूनां मोक्षमार्गे प्रवर्तमानानां क्षुत्तषाऽऽदिपरीषहाः प्राप्ताः स्युः, तेषां तितिक्षाभावनया सहनं प्रथमो विघ्नजघः,
_____ साधूनां रोगाः स्युस्तदा विचारयेत् , मदीयस्वरूपवाधका न सन्ति, परन्तु देहमात्रस्य बाधका एवैवं भावनया सम्यग् धर्मस्याराधने समर्थत्वं भवेदिति, मध्यमविघ्नजयः,
मोक्षमार्गे प्रवर्तमानानां साधूनां मिथ्यात्वादितो मनोविश्रमो यदि स्यात्तदा मिथ्यात्वस्य प्रतिपक्षभावनया मनोविश्रमं दूरे कुर्यादित्युत्तमो विघ्नजयः,)
Loading... Page Navigation 1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550