Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
१७४
ललितविस्तरासंस्कृतटीका
(७)शुभगुरुयोगः एषा सप्तमी, आशंसा, शुभगुरुयोगस्य कथ्यते, लौकिकसौन्दर्य प्राप्त्यनन्तरं लोकोत्तरधर्माधिकार आयाति, एतदपेक्षया पूर्वोक्तपरार्थकरणपर्यन्तगुणान् प्राप्य, ततः प्रथम कार्य शुभगुरुयोगनामकं साध्यं, अन्यथा यद्येतद् गुणरूपलौकिकसौन्दर्य-प्राप्तेरपेक्षा न भवेदेवं शुभगुरुयोगः साध्यो भवेत्तदा, सदोषजठरवान् पौष्टिकाहारं पथ्यं भुञ्जीत, तथा वस्तुतो गुरु. योगो नास्त्येव. एतादृशाय पथ्यं पथ्यं न, जठरे मलपुञ्जः समुदितश्चेत्, पाचकरसा दूषिताश्वेत्तदा मिष्टान्न पक्वान्नादिकं भक्षयेत् तदा न पुष्टि भवति, तथैव गुरुजनपूजा, परार्थकरणं, लोकविरुद्धत्यागादि लौकिक सौन्दर्यापेक्षा, न परन्तु शुभगुरुयोग कर्तुं प्रवर्तेत, यदा सामान्यगुरुजनमातापित्रादिकस्य विनयादिकं नहि कुर्वन् , तदा महाशुभगुरुसत्कं योगं विनयादिकं किं सत्यापयेत् ! यस्य सामान्योपकारो नास्ति, परस्मै किं करिष्यति, तदा महागुरोः किं करिष्यति,
तथा "तद्वचनसेवना" यथोदितगुरुवचनसेवना, न जातुचिदयमहितमाहेति, तथाऽष्टमी 'आशंसा, ' (८) तद्वचनसेवना भवतु, पूर्वोक्त-विशिष्टचारित्रयुक्ताचार्यरूप-गुरुवचनसेवना, कदाचिदपि, अयं गुरुरहितं न कथयतीति.
न सकृत् नाप्यल्पकालमित्याह-"आभवमखण्डा " आजन्म-आसंसारं वा सम्पूर्णा भवतु ममेति, 'एतावत् कल्याणाऽवाप्तौ दागेव नियमादपवर्गः, ' तथा च भवनिर्वेदमार्गाऽनुसारिता-इष्टफलसिद्धि-लोकविरुद्धत्याग-गुरुजनपूजा-परार्थकरण-शुभगुरुयोग-आभवंअखडगुरुवचनसेवारूपकल्याणम्य (शिवमंगलमालायाः प्राप्तौ सत्यां शीघ्रातिशीघ्र, अष्टभवान्तः) एकान्तेन मोक्षो जायते, एते च भवनिर्वेदाद्या अष्टौ गुणाः, कल्याणरूपगुणाः, अचिन्त्यचिन्तामणिरूपवीतराग-भगवत् –त्रिलोकीनाथस्य प्रभाव-प्रसाद-सामर्थ्यतः फलन्ति, प्रकटा भवन्ति, प्राप्यन्ते इति गाथाद्वयार्थः । -अथ शास्त्रकारः प्रणिधानविषयिणी चर्चा सुन्दरशैल्या विस्तारयति
सकलशुभानुष्ठाननिबन्धनमेतत् , अपवर्गफलमेव अनिदानं, तल्लक्षणायोगादिति दर्शितं, असङ्गतासक्तचित्तव्यापार एष महान्, न च प्रणिधानादृते प्रवृत्त्यादयः, एवं कर्त्तव्यमेवैतदिति, प्रणिधानप्रवृत्तिविघ्नजयफलविनियोगानामुत्तरोत्तरभावात्, आशयानुरूपः कर्मबन्ध इति, न खलु तद्विपाकतोऽस्यासिद्धिः स्यात् युक्त्यागमसिद्धमेतत् , अन्यथा प्रवृत्त्याद्ययोगः, उपयोगाभावादिति,
Loading... Page Navigation 1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550