Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 521
________________ ललितविस्तरासंस्कृतटीका टी.....तथा पूर्ववत् (४) "लोकविरुद्धत्यागः' लोकसंक्लेशकरणेन तदनयोजनया महदेतदपायस्थानं, अर्थात्, लोकेषु-सर्वत्र लोकेषु तादृशाकृत्यकरणेन चित्ते संक्लेश (कषायादि) जननद्वारा, लोकानां, अनर्थजाले योजनेन, महदेतन्नरकाद्यपायस्थानं, महाऽनिष्टानुबन्धकारणेन, लोकविरुद्धं यद्यत्तत् तत्सर्वं हेयमेव, 'यद्यपि शुद्धं लोकविरुद्धं नादरणीयं नाचरणीयं' इति नीतिवाक्यं स्मरणीयम् । तथा, एवं पूर्ववत् (५) “ गुरुजनपूजा" मातापित्रादिपूजेतिभावः, अर्थाद, उपकारिगुणवद्-गुरु-पूज्यपुरुषाणां विनय-सेवा-भक्ति-आदिः, गुरुजनपूजया कृतज्ञतागुणस्य सत्यापन भवति, गुणानुरागो वर्धते, कल्याणवृद्धि भवति. 'श्रेयः सम्प्रतिबध्नाति पूज्यपूजाव्यतिक्रमः' इति वाक्यं स्मरणीयम् । तथा-एवं-पूर्ववत् , “परार्थकरणं च" जीवलोकसारं पौरुषचिहमेतत् . अर्थात्-स्वभिन्नपरस्य योऽर्थः-प्रयोजनं-कार्य तस्य करण=परहितकरणं, न तु स्वार्थकरणं, यथाशक्ति, परस्य प्रयोजनं-हितं कार्य, परस्मै, उपयोगी भवेत् , सहायको भवेत् , मनसावचसा धनेन च स्वमूल्यवती शक्तिः परोपकारे प्रयोक्तव्या, उत्तमः परार्थकरणे परौदार्य परमस्वार्थत्यागो भवतीति, परार्थकरण पौरुषचिनं, परोपकरणे पौरुषं-स्वशक्ति व्यापारयति स पुरुषः, तेन मैत्री-भावना सिद्धयति, परहितचिन्तनकरणादौ परमपौरुषोपयोगस्तु तीर्थकृन्नाम जनयति, विश्वोपकारी जगदुद्धारको भवति, जीवलोके, परोपकरणं सारं, "परस्परोपग्रहो जीवानां" इति सूत्रं चिन्तनीयमत्र. (६) सत्येतावति लौकिक- सौन्दर्ये लोकोत्तरधर्माधिकारीत्यत आह " शुभगुरुयोगो" अर्थात्, लौकिकसौन्दर्य तत् यत् , लोकदृष्ट्या-जनसामान्यदृष्टया, असर्वज्ञकथितधर्माणां दृष्ट्या सुन्दरं स्यात् , आभवनिर्वेदात् परार्थकरण यावद् लोकिकसौन्दर्य, लोकोत्तरसौन्दर्य, लोकोत्तरसर्वज्ञकथितधर्म एव लोकोत्तरधर्मस्याधिकारी भवितुं पूर्वोक्तलोकिकसौन्दर्य, आवश्यकी, पात्रताप्राप्तिर्भवति. यत्र जीवे भवनिर्वेदस्थाने विषयलाम्पट्यं, ___ तत्त्वानुसारितास्थाने तत्त्वारुचिः, अतत्त्वरुचिः, लोकविरुद्धत्यागस्थाने लोक-संक्लेशकारिता गुरुजनं प्रति, अविनयादिर्यदि दृश्यते तदा तस्य च, एवं कदाचिद् बाह्यतो लोकोतरधर्मसाधकस्याऽपि तस्य हृदये, आत्मनि च लोकोत्तर-शुभपरिणामो नोस्थितोऽनुमीयते, अर्थात्, शुभगुरुयोगः-विशिष्टचारित्रयुक्ताचार्यसम्बन्धः, अन्यथाऽपान्तराले सदोषपथ्यलाभतुल्योऽयमित्ययोग एव.

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550