________________
ललितविस्तरासंस्कृतटीका
टी.....तथा पूर्ववत् (४) "लोकविरुद्धत्यागः' लोकसंक्लेशकरणेन तदनयोजनया महदेतदपायस्थानं,
अर्थात्, लोकेषु-सर्वत्र लोकेषु तादृशाकृत्यकरणेन चित्ते संक्लेश (कषायादि) जननद्वारा, लोकानां, अनर्थजाले योजनेन, महदेतन्नरकाद्यपायस्थानं, महाऽनिष्टानुबन्धकारणेन, लोकविरुद्धं यद्यत्तत् तत्सर्वं हेयमेव, 'यद्यपि शुद्धं लोकविरुद्धं नादरणीयं नाचरणीयं' इति नीतिवाक्यं स्मरणीयम् ।
तथा, एवं पूर्ववत् (५) “ गुरुजनपूजा" मातापित्रादिपूजेतिभावः, अर्थाद, उपकारिगुणवद्-गुरु-पूज्यपुरुषाणां विनय-सेवा-भक्ति-आदिः, गुरुजनपूजया कृतज्ञतागुणस्य सत्यापन भवति, गुणानुरागो वर्धते, कल्याणवृद्धि भवति.
'श्रेयः सम्प्रतिबध्नाति पूज्यपूजाव्यतिक्रमः' इति वाक्यं स्मरणीयम् । तथा-एवं-पूर्ववत् , “परार्थकरणं च" जीवलोकसारं पौरुषचिहमेतत् .
अर्थात्-स्वभिन्नपरस्य योऽर्थः-प्रयोजनं-कार्य तस्य करण=परहितकरणं, न तु स्वार्थकरणं, यथाशक्ति, परस्य प्रयोजनं-हितं कार्य, परस्मै, उपयोगी भवेत् , सहायको भवेत् , मनसावचसा धनेन च स्वमूल्यवती शक्तिः परोपकारे प्रयोक्तव्या, उत्तमः परार्थकरणे परौदार्य परमस्वार्थत्यागो भवतीति, परार्थकरण पौरुषचिनं, परोपकरणे पौरुषं-स्वशक्ति व्यापारयति स पुरुषः, तेन मैत्री-भावना सिद्धयति, परहितचिन्तनकरणादौ परमपौरुषोपयोगस्तु तीर्थकृन्नाम जनयति, विश्वोपकारी जगदुद्धारको भवति, जीवलोके, परोपकरणं सारं, "परस्परोपग्रहो जीवानां" इति सूत्रं चिन्तनीयमत्र.
(६) सत्येतावति लौकिक- सौन्दर्ये लोकोत्तरधर्माधिकारीत्यत आह " शुभगुरुयोगो" अर्थात्, लौकिकसौन्दर्य तत् यत् , लोकदृष्ट्या-जनसामान्यदृष्टया, असर्वज्ञकथितधर्माणां दृष्ट्या सुन्दरं स्यात् , आभवनिर्वेदात् परार्थकरण यावद् लोकिकसौन्दर्य, लोकोत्तरसौन्दर्य, लोकोत्तरसर्वज्ञकथितधर्म एव लोकोत्तरधर्मस्याधिकारी भवितुं पूर्वोक्तलोकिकसौन्दर्य, आवश्यकी, पात्रताप्राप्तिर्भवति.
यत्र जीवे भवनिर्वेदस्थाने विषयलाम्पट्यं, ___ तत्त्वानुसारितास्थाने तत्त्वारुचिः, अतत्त्वरुचिः, लोकविरुद्धत्यागस्थाने लोक-संक्लेशकारिता गुरुजनं प्रति, अविनयादिर्यदि दृश्यते तदा तस्य च, एवं कदाचिद् बाह्यतो लोकोतरधर्मसाधकस्याऽपि तस्य हृदये, आत्मनि च लोकोत्तर-शुभपरिणामो नोस्थितोऽनुमीयते,
अर्थात्, शुभगुरुयोगः-विशिष्टचारित्रयुक्ताचार्यसम्बन्धः, अन्यथाऽपान्तराले सदोषपथ्यलाभतुल्योऽयमित्ययोग एव.