________________
१७२
ललितविस्तरासंस्कृतटीका पीतप्रसन्नस्य, भवाभिनन्दिनस्तत्त्वतोऽयत्नो निगद्यतेऽर्थात् निर्जीव-क्रियातुल्या एव-जीवरहिताप्राणशून्या या क्रिया-तस्यास्तुल्या,
तथा 'इष्टफलसिद्धिः' अविरोधिफलनिष्पत्तिः, अतो हीच्छाविघाताभावेन सौमनस्य, तत उपादेयाऽदरः, न त्वयमन्यत्रा-निवृत्तौत्सुक्यस्येत्ययमपि विद्वज्जनवादः,
भवनिर्वेदे तत्त्वागमनं, ततोऽत्र मार्गानुसारिता प्रार्थिता, ततो मानसिकशुभभावद्वारा चित्तप्रसन्नतासिद्धयर्थं, इष्टफलसिद्धि र्याचितेति क्रमः,
तथा इष्टफलसिद्धिः चित्तनिष्ठसुमनस्कता-सुप्रसन्नता, तस्या विरोधिविघातकं यद् यद् तस्यात्यन्ताभाव-प्रयुक्तं यत् फलं सौमनस्यं तस्य निष्पत्तिः, यतो विघातके-( अप्रशस्ते ) च्छामात्रस्याभावेन सौमनस्यमात्यन्तिकं चित्तप्रसन्नत्वम् , ततः, सौमनस्यादुपादेय-देवपूजादि कर्त्तव्यमात्रेऽत्यन्तादरः-बहुमानभावः,
अधिकृतादन्यत्र स्थले, अनिवृत्त-असमाप्तौत्सुक्यस्य (अखंडितव्याकुलत्वस्य) न सौमनस्यमिति अयं, अपि विद्वज्जनवादः, न पुनः ‘अयं' उपादेयादरः, अन्यत्र जीवनोपायादौ, अनिवृत्तौत्सुक्यस्य, अव्यावृत्ताऽऽकाङ्कातिरेकस्येति, तदौत्सुक्येन चेतसो विह्वलीकृतत्वात् , - अथ लोकविरुद्धत्यागादारभ्याभवमखंडा-पर्यन्तां व्याख्यां तनोति____तथा “ लोकविरुद्धत्यागः " लोकसंक्लेशकरणेन तदनर्थयोजनया महदेतदपायस्थानं, तथा “गुरुजनपूजा” मातापित्रादिपूजेतिभावः, तथा परार्थकरणं च जीवलोकसारं पौरुषचिह्नमेतत् , सत्येतावति लौकिके सौन्दर्ये लोकोत्तरधर्माधिकारीत्यत आह-"शुभगुरुयोगो” विशिष्टचारित्रयुक्ताचार्यसम्बन्धः, अन्यथाऽपान्तराले सदोषपथ्यलाभतुल्योऽयमित्ययोग एव, तथा “तद्वचनसेवना” यथोदितगुरुवचनसेवना, न जातुचिदयमहितमाहेति।
न सकृत् नाप्यल्पकालमित्याह-"आभवमखण्डा” आजन्म आसंसारं वा सम्पूर्णा भवतु ममेति, एतावत्कल्याणावाप्तौ द्रागेव नियमादपवर्गः, फलति चैतदचिन्त्यचिन्तामणेभगवतः प्रभावेनेति गाथाद्वयार्थः ।।