________________
ललितविस्तरासंस्कृत टीका
'तत्रेत्यादि' - गतादिपदेन यत्सूचितं मृदु-मध्यम-उत्कटमात्रक - यमनियमादिप्रत्येकोपायद्वाराऽपि त्रिविधसमाधिर्मनः प्रसन्नता प्राप्यते, एवं मृदुतः शीघ्रभावी - अधिकशीघ्रभावी - अतिशीघ्रभावी समाधिः, एवं मध्यमतोऽपि - एतत् त्रिविधसमाधिश्च उत्कृष्टतोऽप्येतत् त्रिविध समाधिरेवं रीत्या नवधा समाधि र्भवेत् प्रणिधानं प्रथमगुणस्थानकेऽपि भवति
१७१
प्राचीनाचार्याः कथयन्ति यत् मिथ्यात्वगुणस्थानकनामक - प्रथमगुणस्थानकस्था मन्दमिथ्यादृष्टिजीवानामपि एतद्भवनिर्वेदादिविषयक ाशंसा - प्रणिधानभवनं युक्तियुक्तम्, अद्यापि यद्यपि बोधिस्तेषां नास्ति, तथाप्येतत् प्रणिधानं पुनः पुनः कुर्वतां बोधिलाभः, अर्थात् बोधि प्राप्तितः पूर्वमप्येतत् प्रणिधानमवश्यं कर्त्तव्यम्, आगमनानन्तरमप्यूर्द्वगुणस्थानके गन्तुं तीव्र - तीव्रतरप्रणिधानमावश्यकम् ।
- जय वीयराय जगद्गुरु सूत्रस्य व्याख्या -
जय वीतराग ! जगद्गुरो ! भवतु, मम, त्वत्प्रभावतः । अत्र भगवतस्त्रैलोक्यनाथस्यामन्त्रणमेतद् भावसन्निघानार्थम् । अर्थात्-हे भगवन् - त्रिलोकीनाथ ! त्वामामन्त्रयामि मम भावेषु सन्निधानं - नैकटयं कुरु कुरु मम भावे भवतां सन्निधानार्थ, आगच्छेति आगच्छेत्यामन्त्रणं, आमन्त्रणेन भवतां भावाभेदसान्निध्येन प्रभावैक्य - नैकट्यमायाति । मदीयभाव-भवदीयप्रभावयो र्मिलितयोः कार्यसिद्धिः, अथवा त्वत्सामर्थ्येन प्रार्थनारूपा अष्टौ विषयाः सिद्ध्यर्थं व्यज्यन्ते भवनिर्वेदाद्याः, भवनिर्वेदः = संसारान्निर्वेदः = भवाद्भवान्तरे, कायात्कायान्तरे, रागादिभावविषयकर्मोदय-हर्षहास्यादिसुखादिभ्यो भिन्नभिन्न- भावाद्यन्तरेषु गमनं - परिभ्रमणं - परिवर्तनवर्त्तनं भयंकर नवनवनरकादिगतिषु गमनं चतसृषु दिक्षु पुनरपि पुनभ्रमणं भवः, धर्मस्य बीजं भवनिर्वेदः, धर्मसाधना सर्वाऽपि तदैव कथ्यते, तदन्तर्गतो भवनिर्वेदः स्यात्, विना भवनिर्वेद, मोक्षार्थाय कृतोऽपि यत्नोऽयत्न एव.
तथा मार्गानुसारिता = यथा भवनिर्वेदः प्रार्थनीयः (आशंसनीयः) तथा मार्गानुसारिता= इष्टा प्रार्थनात्वेन, मार्गानुसारिता = असद् ग्रह विजयेन तत्त्वानुसारिता = असद्द्महस्य (कदामहस्य - पूर्वप्रहस्य - व्युद् प्रहस्य) विजयेन, तत्र विजयं प्राप्य, मार्ग प्रति-तत्त्वं प्रति, अनुसरणं - पक्षपातः, आत्मनो हृदयस्य वा गतिः - प्रगतिरनुगति यवित्, यत्र मार्गो न तत्त्वं न तत्र, नानुसरणं, नो गति र्वा पक्षपातो - न तत्त्व बुद्धि:,
हि-यतो, भवतोऽनिर्विण्णो-भवाभिनन्दी, मोक्षमुद्दिश्य न यतते, भवमधिकृत्य न यतते, अनिर्विण्णस्य तत्प्रतिबन्धात्, भवनिर्वेदरहिते - भवरसिके भवासक्तिरप्रतिहता भवति, भवरसासव