________________
१७०
ललितविस्तरासंस्कृतटीका दर्शयति-"तीव्रसंवेगानामासन्नः समाधिः मृदुमध्याऽधिमात्रत्वाद्, ततोऽपि विशेष इत्यादि " प्रथमगुणस्थानस्थानां तावत् एवंविधमुचितमिति सूरयः ।।
प्रणिधानफलं वर्णयति-'यथाशय प्रणिधान' प्रणिधानमुच्चतमं कर्तु, उच्चत्तमशुभाशयः (चित्तपरिणामः, अध्यवसायः) आवश्यकोऽस्ति, एष शुभाशयो यावान् महोज्ज्वलः महाप्राणवान् तावानेतत्सूत्रे प्रार्थितभवनिर्वेदादीनां प्रकाशमानं प्रणिधानं भविष्यति, प्राणवती, आशंसा, शुभाशयमूलकः संवेगः-मोक्षाऽभिलाषोऽनिवार्यः ततः, एताः प्रार्थनारूपा आशंसाः सत्याः सिध्यन्ति,
अर्थात् संवेगमूलशुभाशयेन प्राकट्यमाप्नुवन्त्येषा, आशंसा, शुभाशयप्रमाणा यावत्युत्कटा, तावती प्रवलवलवती तिष्ठेत् , किञ्च प्रणिधानतीव्रतया तीव्रसंवेगश्चाशंसा–प्रणिधानस्योत्कटतया संवेगोऽपि ( मोक्षाऽभिलाषः ) उत्कटो भवेदान्मोक्षकारणभवनिर्वेदादिविषयकाशंसा तीव्रा जाताऽतो मोक्षाशंसारूपसंवेगोऽपि तीव्रो भवेत् । तीव्रसंवेगतः सद्योग (समाधि)स्य लाभो भवेत् , निर्मलश्चित्तप्रसादः प्रणिधानशुभाशयस्य तीव्रतया तीव्रो भूत्वोत्कटसंवेगं जनयति, तत्र प्रणिधाने शुद्धसमाधिः, निर्मलश्चित्तप्रसादः, सहजतया प्राप्यते, एष सद्योगः समाधिरस्ति, तीव्रप्रणिधानसमये उत्कटसंवेगेन शक्यो भवति. समाघे नवभेदाः१. आसन्नः शीघ्रभावी
जघन्यसमाधिः मध्यम "
२. ३.
" "
उत्कृष्ट "
४. आसन्नतर-अतिशीघ्रभावी जघन्यसमाधिः
मध्यम "
उत्कृष्ट " ७. आसन्नतम-अतिअतिशीघ्रभावी-जघन्यसमाधिः ८. " " "
मध्यम "
उत्कृष्ट "
अन्ये पतञ्जलिप्रभृतय आहुः-तीव्रसंवेगतां समाधिरासन्नः-शीघ्रभावी भवति, तत्राऽपि मृदु-मध्योत्कृष्ट (तीव्र) संवेगो भवति. ततः तद्वाराऽपि जायमानसमाधि विशेषतावान् , तारतम्यभाववानऽर्थात् , शीघ्रभावी-अतिशीघ्रभावी, अतिअतिशीघ्रभावी भवतीति. परन्तु तीव्रमात्रायाः सवेगेनाऽपि त्रिविधः समाधि भवति.