________________
ललितविस्तरासंस्कृतटीका ___" तीव्रसंवेगानां" प्रकृष्टमोक्षवाञ्छानां “ आसन्नः" आशुभावी “समाधिः" मनःप्रसादो यत इति गम्यते, अत्रापि तारतम्याभिधानायाह-" मृदुमध्याधिमात्रत्वात्" मृदुत्वात्-सुकुमारतया, मध्यत्वाद्-अजघन्यानुत्कृष्टतया, अधिमात्रत्वात्-प्रकृष्टतया तीव्र संवेगस्य " ततोऽपि" तीव्रसंवेगादपि किं पुनर्मन्दान्मध्याद्वा संवेगाद्विशेषत्रिविधः समाधिरासन्नाऽऽसनतराऽऽसन्नतमरूपः, आदिशब्दान्मृदुना मध्येनाधिमात्रेण चोपायेन यमनियमादिना समवायवशात् प्रत्येकं मृदुमध्याधिमात्रभेदभिन्नतया त्रिविधस्य समाधेर्भावात् नवधाऽसौ वाच्य इति ।।
___ “अतो हीत्यादि” “अतः” इष्टफलसिद्धेः “हि" यस्माद् "इच्छाविघाताभावेन" अभिलाषभङ्गानिवृत्त्या, किमित्याह- " सौमनस्य " चितप्रसादः “ ततः " सौमनस्याद् “ उपादेयादरः” उपादेये-देवपूजादौ आदरः-प्रयत्नः, अन्यथाऽपि कस्यचिदयं स्यादित्याशङ्कयाह" नतु" न पुनः " अयम्" उपादेयादरः “ अन्यत्र" जीवनोपायादौ “अनिवृत्तौत्सुम्यस्य" अव्यावृत्ताऽऽकाङ्क्षाऽतिरेकस्येति, तदौत्सुक्येन चेतसो विह्वलीकृतत्वात् ।।
टी०...किञ्च पुनः संवेग-मुमुक्षुवृत्तितो भावित-संस्कारितमतिमन्तो विधिना-'सिद्धाणं. पर्यन्तं' कायोत्सर्ग स्तुति च कृत्वानन्तरं पादयोः भूमेश्च प्रमार्जनं कृत्वा, उपविश्य पूर्ववत् प्रणिपातदंडक-नमोत्थुणं' आदि सूत्रमुच्चारयेत् , ततः स्तोत्रस्तवनादिकमुच्चारयेद्,
ततः सकलयोगाक्षेपाय-समस्तसमाधेराकर्षणाय, मुक्ताशुक्तिमुद्रया प्रणिधानं कुर्यात्, (प्रणिधानसूत्रमुच्चारयेत् ) करोति, कुर्वन्ति वा, मुक्ताशुक्त्या, उक्तं च
(१) 'पञ्चाङ्गो' प्रणिपातः, स्तवपाठो भवति योगमुद्रया । 'वंदण' ( 'वंदणवतियाए' इत्यादि कथयित्वा कायोत्सर्गों) जिनमुद्रया, प्रणिधानं ('जयवीयराय' सूत्रं ) मुक्ताशुक्त्या ।
(२) द्वौ जानू द्वौ करौ पंचमानं भवत्युत्तमाङ्गंतु, सम्यग् सम्प्रणिपातो ज्ञेयः, पञ्चाङ्गप्रणिपातः ।
(३) अन्योऽन्यान्तरितांगुलिकोसाकार भ्यां हस्ताभ्यां, उदरोपरिकूपर-संस्थितैस्तथा योगमुद्रया ।
(४) चत्वारि, अगुलानि पुरतो, न्यूनानि यत्र पश्चिमतो । द्वौ पादौ रक्षित्वा यत्र कायोत्सर्गों भवति, सा पुन भवति जिनमुद्रा । __(५) मुक्ताशुक्तिर्मुद्रा, समौ यत्र (याभ्यां) द्वावपि गर्भितौ हस्तौ, तौ पुनर्ललाटदेशे लमौ, अन्ये, अलमाविति ।
प्रणिधानं यथाशयं यद्यस्य तीव्रसंयोगहेतुः, ततोऽत्र सद्योगलाभः, यथाऽऽहुरन्ये
'ततोऽत्रेत्यादि' ततस्तीव्रसंवेगादुक्तरूपाद् 'अत्र' प्रणिधाने 'सद्योगलाभः' शुद्धसमाधिप्राप्तिः, परसमयेनापि समर्थयन्नाह-'यथाहुः' 'अन्ये'. पतञ्जलिप्रभृतयः, यदाहुस्तदेव
२२