Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृतटीका अर्थात् -प्रणिधानमपि, एकप्रकारकं मनश्चित्तपरिणामोऽस्ति. (१) यत्पणिधान विशुद्धभावनया बलवद् भवति. (२) यच्चित्तप्रणिधानस्य विषये-अर्थे समर्पितमानसवत् प्रणिधानं भवति. (३) यथाशक्ति बाह्यानुष्ठानरूपक्रियाया लिङ्गं ज्ञापकं तत्प्रणिधानं.
अर्थात् तत्तविषयस्य बाह्यक्रियासहित च निर्मलभावोतप्रोतं, एकाग्रं-तन्मयं मनः प्रणिधानं कथ्यते । इति.
"स्वल्पेत्यादि" स्वल्पकालमपि=परिमितमपि कालं शोभनम् , उत्तमार्थहेतुतया 'इदं ' प्रणिधानं, कुत इत्याह- "सकलकल्याणाक्षेपात्" निखिलाभ्युदयनिःश्रेयसाऽवन्ध्यनिवन्धनत्वाद् ,
एतत् प्रणिधानं विशुद्धभावनायां च शुभविषये चित्तस्यैकाग्रतावत्त्वात् प्रशस्तपरिणामवत्त्वेन शुद्धशुभपरिणतिरपि स्वल्पकालीनाऽपि जाग्रद्दशां प्राप्ता तदा पापक्षयः, पुण्यवृद्धिः, संस्कारवृद्धि र्जायते, इंदं सकलाभ्युदयस्य (ऐहिकसमृद्धः) तथा निःश्रेयस-मोक्षस्य, अवन्ध्यअसाधारणकारणं प्रणिधानमेव.
प्रणिधानविषयकभावना अतिगम्भीरम्-अनन्तकालतो रागादिपरवशं चित्तं बहिर्भागे भ्रमद्, अशुभ-विषयानुगत विनिवारयति, प्रणिधानं, विशुद्धभावनया देदीप्यमानं मनःसमर्पयति, शुभविषये प्रणिधानं विशालतात्त्विकदृष्टया निरीक्षकं मनः करोति प्रणिधानं,
उदारम्=शुभातिशुभविषयविषयकं गम्भीरविशालस्वरूपं, गृह्णत् प्रणिधानं गम्भीरमुदारं कथ्यते. तस्मात्,
प्रणिधानतो लाभादिः अस्मात्-प्रणिधानाद्, प्रशस्तभावलाभो, राग-द्वेषमोहैरस्पृष्टप्रणिधान (एकाग्रचित्त)स्य प्राप्ति भवति, को लाभः ? प्रणिधानाद् विशिष्टः
(१) मिथ्यात्वमोहनीयादेः कर्मणो विशिष्टक्षयोपशमः.
(२) शुद्धमनुष्यगतिसंस्थानसुसंहननादिरूपस्य कर्मणो यथायोगं, एकदेशक्षयलक्षणक्षयोपशमस्य लाभः.
- (३) आदिशब्दाद्-वन्धस्य भावतः-सत्तायाः परलोक-प्रधानधर्मकायादिलाभप्रधानस्य दृढसंहनन-शुभसंस्थानतया, सर्वोत्कृष्टस्य, धर्मकायस्य=धर्माराधनार्हशरीरस्य, आदिशब्दात्उज्ज्वलकुलजात्यायुर्देशकल्याणमित्रादेलाभो भवति.
(४) 'तत्र ' धर्मकायादिलाभे — अस्य ' प्रणिधानकर्त्तः ‘सकलोपाधिविशुद्धिः'-प्रलीन (विनष्ट) निखिलकलङ्कस्थानतया सर्वविशेष शुद्धिर्भवति, कथमिति चेदुच्यते दीर्घकालं पूर्वलक्षादिप्रमाणतया, नैरन्तर्येण-निरन्तराय-सातत्येन, सत्कारस्य-जिनपूजासेवनम् , अनुभवः,
Loading... Page Navigation 1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550