Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 512
________________ ललितविस्तराससटीका पर्यन्तं ) चूर्णं च सिद्धस्तवस्य गाथात्रयपर्यन्तं, शेष उज्जयन्तादिरूपाधिकारो यथेच्छया कथनीयः, शेषा नवाधिकाराः सूत्र-प्रामाण्येन सन्ति यतोऽत्र ललितविस्तरावृत्तौ नवाधिकारा अवश्यं नियमेन भणनीयाः, शेषाधिकारत्रये 'न च तत्र नियम' इति न तद्व्याख्यान-क्रिया, परन्तु शेषाधिकारत्रयं पूर्वाचार्यकृतनियुक्तौ चूर्णौ च कथितत्वेन श्रुतपरम्परया प्रवर्त्तते, यकारणेनाऽवश्यकचूर्णी "सेसयाजहिच्छाए" अर्थाद् शेषाधिकारो वन्दनकेच्छानुसारेणाऽस्ति, एवं कथितं, तत्कारणेन 'उज्जयन्तशैलशिखरे' इत्याद्यधिकारत्रयमपि निश्चय (श्रुतपरम्परावत्त्वेन) श्रुतमयं ज्ञेयं, परन्तु श्रुतबाह्यं नास्ति यतः, आवश्यकचूर्णिसत्कव चनं श्रुतबाह्यं न गण्यते.) -अथ शास्त्रकारो 'वैयावच्चगराणं' सूत्रस्य व्याख्यां करोति एवमेतत्पठितोपचितपुण्यसंभारा उचितेषूपयोगफलमेतदिति ज्ञापनार्थ पठन्ति-"वेयावच्चगराणं संतिगराणं सम्महि हिसमाहिगराणं करेमि काउस्सग्गमित्यादि यावद्वोसिरामि" व्याख्यापूर्ववत् नवरं-वैयावृत्त्यकराणां-प्रवचनार्थं व्यापृतभावानां यथाऽम्बाकूष्माण्ड्यादीनां, शान्तिकराणां क्षुद्रोपद्रवेषु सम्यग्दृष्टीनांसामान्येनान्येषां समाधिकराणां-स्वपरयोस्तेषामेव, स्वरूपमेतदेवैषामिति वृद्धसम्प्रदायः, एतेषां सम्बन्धिनं, सप्तम्यर्थे वा षष्ठी, एतद्विषयं-एतानाश्रित्य, करोमि कायोत्सर्गमिति, कायोत्सर्गविस्तरः पूर्ववत् , स्तुतिश्च नवरमेषां वैयावृत्त्यकराणां तथा तद्भाववृद्धेरित्युक्तप्रायं, तदपरिज्ञानेऽप्यस्मात् , तच्छुभसिद्धाविदमेव वचनं ज्ञापकं, न चासिद्धमेतद्, अभिचारुकादौ तथेक्षणात्, सौचित्त्यप्रवृत्त्या सर्वत्र प्रवर्तितव्यमित्यैदम्पर्यमस्य, तदेतत्, सकलयोगबीजं वन्दनादिप्रत्ययमित्यादि न पठ्यते, अपि त्वन्यत्रोच्छवसितेनेत्यादि, तेषामविरतत्वात्, सामान्यप्रवृत्तरित्थमेवोपकारदर्शनात्, वचनप्रामाण्यादिति, व्याख्यातं सिद्धेभ्य इत्यादि सूत्रम् ॥

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550