Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 513
________________ हलितविस्तरासंस्कृतटीका पं..." उचितेषूपयोगफलमेतदिति” उचिसेषु-लोकोत्तरकुशलपरिणामनिबन्धनतया योग्येवहंदादिषूपयोगफलं-प्रणिधानप्रयोजनम् "एतत्" चैत्यवन्दमित्यस्यार्थस्य ज्ञापनार्थमिति, "तदपरिज्ञानेत्यादि" तैः वैयावृत्त्यकरादिभिरपरिज्ञानेऽपि-स्वविषयकायोत्सर्गस्यास्मात्-कायो त्सर्गात्तस्य-कायोत्सर्गकर्तुः, “शुभसिद्धौ” विघ्नोपशमपुण्यबन्धादिसिद्धौ, “ इदमेव" कायोत्सर्गप्रवर्तकं वचनं "ज्ञापकं " गमकमाप्तोपदिष्टत्वेनाव्यभिचारित्वात् “न च" नैव “ असिद्ध " अप्रतिष्ठितं, प्रमाणान्तरेण “ एतद् ” अस्माच्छुभसिद्धिलक्षणं वस्तु, कुत इत्याह-" आभिचारुकादौ " दृष्टान्तधर्मिण्याभिचारुके स्तोभनस्तम्भनमोहनादिफले कर्मणि, आदिशब्दाच्छान्तिकपौष्टिकादिशुभफलकर्मणि च “तथेक्षणात्" स्तोभनीयस्तम्भनीयादिभिरविज्ञानेऽपि आप्तोपदेशेन स्तोभनादिकर्मकर्तुरिष्टफलस्य स्तम्भनादेः प्रत्यक्षानुमानाभ्यां दर्शनात् , प्रयोगो-यदाप्तोपदेशपूर्वकं कर्म, तद्विषयेणाज्ञातमपि कर्तुरिष्टफलकारि भवति, यथा स्तोभनस्तम्भनादि कर्म, तथाचेदं वैयावृत्त्यकरादिविषयकायोत्सर्गकरणमिति, टी.....अर्थादेतत्सूत्रं (सिद्धाणं सूत्र) पूर्व पठितम् -पठनानन्तरं, उपचितं-वृद्धिं नीतं यत्पुण्यं तस्य सम्भारः समुदायो येषां ते, एतत्पठितोपचितसम्भारा (पुरुषाः चैत्यवंदनकारकाः) "उचितेषूपयोगफलमेतदिति" उचितेषु-लोकोत्तरकुशल-(शुभ) परिणामस्य, निबंधनतया-निदानतया योग्येषु, अहंदादिषु-उपयोगफलं-प्रणिधानं, प्रयोजन-फलं कार्य यस्य तत् एतत् ' चैत्यवन्दनमित्यर्थस्य ज्ञापनार्थ पठन्ति-"वैयावृत्त्यकराणां शान्तिकराणां सम्यग्दृष्टिसमाधिकराणां करोमि कायोत्सर्गमित्यादि यावद् व्युत्सृजामि" । व्याख्या पूर्ववत्, नवरे (विशेषतस्तु) (१) वैयावृत्यकराणां=प्रवचन-शासन-संघार्थ विशेषप्रकारेण व्यापार-प्रयत्नपूर्वकं कार्यसेवाभावविशिष्टा 'वैयावृत्त्यकराः' कथ्यन्ते, यथाऽम्बाकुष्माण्डिका (चक्रेश्वरी) प्रभृतिदेव्यः, गोमुखाद्याः शासनदेवा वैयावृत्त्यकरत्वेन रूढा इति. (२) शान्तिकराणां विरोधि-आदिकृत-क्षुद्रोपद्रवविषयकशान्तिकरास्तेषां, (३) सम्यग्दृष्टीनां सामान्येन चैत्यवन्दनादिकारकाणां, अन्येषां-अचैत्यवंदनकारकाणां सर्वेषां सम्यग्दृष्टीनां समाधिकराणां सम्यग्दृष्टिसमाधिकराणां, समाधिकराणां स्वपरयो:-चैत्यवन्दनाराधकानाराधकयोः समाधिकरास्तेषां, समाधिकराणां स्वरूपमेतदेवैषां वैयावृत्त्यकरणं, शान्तिकरणं सम्यग्दृष्टि-समाधिकरणमिति, एतत्स्वरूपं, एषां-शासनदेवदेवीनामस्ति, इति वृद्धसम्प्रदायोऽस्ति । एवं च वैयावृत्त्यकर-शान्तिकर-सम्यग्दृष्टिसमाधिकराणां (समग्रशासनदेवदेवीनां) सम्बधिनं (सत्क) कायोत्सर्गमहं करोमि, अथवा सप्तम्यर्थे षष्ठी, अस्ति, एतादृशी-मान्यतायां वैयावृत्त्यकर

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550