Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 518
________________ १७० ललितविस्तरासंस्कृतटीका दर्शयति-"तीव्रसंवेगानामासन्नः समाधिः मृदुमध्याऽधिमात्रत्वाद्, ततोऽपि विशेष इत्यादि " प्रथमगुणस्थानस्थानां तावत् एवंविधमुचितमिति सूरयः ।। प्रणिधानफलं वर्णयति-'यथाशय प्रणिधान' प्रणिधानमुच्चतमं कर्तु, उच्चत्तमशुभाशयः (चित्तपरिणामः, अध्यवसायः) आवश्यकोऽस्ति, एष शुभाशयो यावान् महोज्ज्वलः महाप्राणवान् तावानेतत्सूत्रे प्रार्थितभवनिर्वेदादीनां प्रकाशमानं प्रणिधानं भविष्यति, प्राणवती, आशंसा, शुभाशयमूलकः संवेगः-मोक्षाऽभिलाषोऽनिवार्यः ततः, एताः प्रार्थनारूपा आशंसाः सत्याः सिध्यन्ति, अर्थात् संवेगमूलशुभाशयेन प्राकट्यमाप्नुवन्त्येषा, आशंसा, शुभाशयप्रमाणा यावत्युत्कटा, तावती प्रवलवलवती तिष्ठेत् , किञ्च प्रणिधानतीव्रतया तीव्रसंवेगश्चाशंसा–प्रणिधानस्योत्कटतया संवेगोऽपि ( मोक्षाऽभिलाषः ) उत्कटो भवेदान्मोक्षकारणभवनिर्वेदादिविषयकाशंसा तीव्रा जाताऽतो मोक्षाशंसारूपसंवेगोऽपि तीव्रो भवेत् । तीव्रसंवेगतः सद्योग (समाधि)स्य लाभो भवेत् , निर्मलश्चित्तप्रसादः प्रणिधानशुभाशयस्य तीव्रतया तीव्रो भूत्वोत्कटसंवेगं जनयति, तत्र प्रणिधाने शुद्धसमाधिः, निर्मलश्चित्तप्रसादः, सहजतया प्राप्यते, एष सद्योगः समाधिरस्ति, तीव्रप्रणिधानसमये उत्कटसंवेगेन शक्यो भवति. समाघे नवभेदाः१. आसन्नः शीघ्रभावी जघन्यसमाधिः मध्यम " २. ३. " " उत्कृष्ट " ४. आसन्नतर-अतिशीघ्रभावी जघन्यसमाधिः मध्यम " उत्कृष्ट " ७. आसन्नतम-अतिअतिशीघ्रभावी-जघन्यसमाधिः ८. " " " मध्यम " उत्कृष्ट " अन्ये पतञ्जलिप्रभृतय आहुः-तीव्रसंवेगतां समाधिरासन्नः-शीघ्रभावी भवति, तत्राऽपि मृदु-मध्योत्कृष्ट (तीव्र) संवेगो भवति. ततः तद्वाराऽपि जायमानसमाधि विशेषतावान् , तारतम्यभाववानऽर्थात् , शीघ्रभावी-अतिशीघ्रभावी, अतिअतिशीघ्रभावी भवतीति. परन्तु तीव्रमात्रायाः सवेगेनाऽपि त्रिविधः समाधि भवति.

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550