________________
ललितविस्तराससटीका पर्यन्तं ) चूर्णं च सिद्धस्तवस्य गाथात्रयपर्यन्तं, शेष उज्जयन्तादिरूपाधिकारो यथेच्छया कथनीयः, शेषा नवाधिकाराः सूत्र-प्रामाण्येन सन्ति यतोऽत्र ललितविस्तरावृत्तौ नवाधिकारा अवश्यं नियमेन भणनीयाः, शेषाधिकारत्रये 'न च तत्र नियम' इति न तद्व्याख्यान-क्रिया,
परन्तु शेषाधिकारत्रयं पूर्वाचार्यकृतनियुक्तौ चूर्णौ च कथितत्वेन श्रुतपरम्परया प्रवर्त्तते, यकारणेनाऽवश्यकचूर्णी "सेसयाजहिच्छाए" अर्थाद् शेषाधिकारो वन्दनकेच्छानुसारेणाऽस्ति, एवं कथितं, तत्कारणेन 'उज्जयन्तशैलशिखरे' इत्याद्यधिकारत्रयमपि निश्चय (श्रुतपरम्परावत्त्वेन) श्रुतमयं ज्ञेयं, परन्तु श्रुतबाह्यं नास्ति यतः, आवश्यकचूर्णिसत्कव चनं श्रुतबाह्यं न गण्यते.) -अथ शास्त्रकारो 'वैयावच्चगराणं' सूत्रस्य व्याख्यां करोति
एवमेतत्पठितोपचितपुण्यसंभारा उचितेषूपयोगफलमेतदिति ज्ञापनार्थ पठन्ति-"वेयावच्चगराणं संतिगराणं सम्महि हिसमाहिगराणं करेमि काउस्सग्गमित्यादि यावद्वोसिरामि" व्याख्यापूर्ववत् नवरं-वैयावृत्त्यकराणां-प्रवचनार्थं व्यापृतभावानां यथाऽम्बाकूष्माण्ड्यादीनां, शान्तिकराणां क्षुद्रोपद्रवेषु सम्यग्दृष्टीनांसामान्येनान्येषां समाधिकराणां-स्वपरयोस्तेषामेव, स्वरूपमेतदेवैषामिति वृद्धसम्प्रदायः, एतेषां सम्बन्धिनं, सप्तम्यर्थे वा षष्ठी, एतद्विषयं-एतानाश्रित्य, करोमि कायोत्सर्गमिति, कायोत्सर्गविस्तरः पूर्ववत् , स्तुतिश्च नवरमेषां वैयावृत्त्यकराणां तथा तद्भाववृद्धेरित्युक्तप्रायं, तदपरिज्ञानेऽप्यस्मात् ,
तच्छुभसिद्धाविदमेव वचनं ज्ञापकं, न चासिद्धमेतद्, अभिचारुकादौ तथेक्षणात्, सौचित्त्यप्रवृत्त्या सर्वत्र प्रवर्तितव्यमित्यैदम्पर्यमस्य, तदेतत्, सकलयोगबीजं वन्दनादिप्रत्ययमित्यादि न पठ्यते, अपि त्वन्यत्रोच्छवसितेनेत्यादि, तेषामविरतत्वात्, सामान्यप्रवृत्तरित्थमेवोपकारदर्शनात्, वचनप्रामाण्यादिति, व्याख्यातं सिद्धेभ्य इत्यादि सूत्रम् ॥