________________
ललितविस्तरासंस्कृत टीका
इष्टफलदायित्वेन गण्यते, वस्तुतस्तु भगवन्नमस्कारो जगतीष्टफलदायितया गीयमान - कल्पद्रुमादिप्रकारमेव भगवन् स्तवनमस्कारतुल्यं, अपण्डिता - अकुशला एतद्वदन्ति
तथाहि=महामहिमशाली, जागतिकः कल्पवृक्षः कल्पनाविषयं फलं ददाति भगवन्नमस्कारस्तु कल्पनाऽतीताऽनन्ताऽव्याबाघसुखमय मोक्षनामकं फलं ददाति, जागतिक - मन्त्र सर्वदुः खरूप - विषापहो न भवति, परन्तु जन्मजरामरणशोक दारिद्रयभय - पराधीनता - विडम्बनादिसकलसांसारिकदुःखरूपविषापहो भगवन्नमस्कारो भवति. जागतिक - तीर्थकर नामकर्मादिरूपं पुण्यं तीर्थंकरत्वरूपं फलं ददाति. जागतिक - चिन्तामणिरपि चितितं लौकिकं फलं ददाति परन्तु सर्वकर्मक्षयरूपापवर्ग फलं तु भगवन्नमस्कारो ददाति अतो जागतिकफलदायिचिन्तामण्यादिभिः, ते नमस्कारः, तुल्यो नाऽभिधीयते .
१६३
एतास्तिस्रः स्तुतयो नियमेनोच्यन्ते, केचित्तु अन्या अपि पठन्ति न च तत्र नियम इति न तद्व्याख्यानक्रिया,
66
टी.....(श्रीमद्-हेमचन्द्रसूरीश्वरैः योगशास्त्रे स्वोपज्ञवृत्तौ कथितमस्ति यद् 'एतास्तिस्रः स्तुतयः ' गणधरकृतत्वेन नियमेनोच्यन्ते केचित्तु, अन्यस्तुतिद्वयं वदन्ति. ) यथाहिउज्जित सेलसिहरे दिक्खा नाणं निसीहिया जस्स । तं धम्मचक्कवट्टि अरिट्ठनेमिं नम॑सामि ॥ ४ ॥ चचारि अट्ठदस दोय वंदिआ जिणवरा चउव्वीसं । परमट्ठनिट्ठि - अट्ठा सिद्धा सिद्धि मम दिसंतु ।। ५ ।।
"
( " उज्जयंत शैलशिखरे दीक्षा ज्ञानं निषेधिका यस्य । तं धर्मचक्रवर्तिनं, अरिष्टनेमि नमस्यामि ॥ चत्वारो, अष्ट, दस, द्वौ च वंदिता जिनवरा: चतुर्विंशतिः । परमार्थ - निष्ठितार्थाः सिद्धाः सिद्धि मम दिशन्तु ॥ " )
( तथा च शक्रस्तवे 'जे अइया सिद्धा' रूप - प्रथमगाथायां द्वितीयोऽधिकारश्च 'सिद्धाणं' सिद्धस्तवस्य, चरमगाथाद्वयरूपो दशम - एकादशोऽधिकार एवं तदधिकारत्रयं,
श्रुतपरम्परया - गीतार्थ - पूर्वाचार्यस्य सम्प्रदायेन कथ्यते, अथवा श्रुतेन-सूत्रेण तथा तस्सूत्रस्य निर्युक्तितो भाष्येण चूर्ष्या चैवं श्रुतपरम्परया - सूत्रादिपञ्चाङ्गी परम्परया कथ्यते यथा सूत्रे चैत्यवंदनं श्रुतस्तवपर्यन्तं कथितं किञ्च निर्युक्तिमध्ये सिद्धस्तवपर्यन्तं (सिद्धाणं प्रथमगाथा