________________
ललितविस्तरासंस्कृतटीका अस्खलितकारणत्वेन, भावनमस्कारेणैव नरस्य वा नार्या वा संसारसागरतः पारतस्तरणं भवति. अतः 'नमस्कारः कर्त्तव्यः' इति विधिवादः सफलः,
शङ्का कथं न मोक्षफलं सम्यग्दर्शनादि ?
समाधानम् =परम्परया मोक्षस्य सम्यग्दर्शनादि, मोक्षकारणत्वेन मोक्षफलजनकं कथ्यते, उत्कृष्टसम्यग्दर्शनादि-परिणामप्राप्तभावनमस्कार एव साक्षान्मोक्षफलजनकमुच्यते इति विधिवादरूपद्वितीयपक्षस्य साफल्यम् ।
अर्थवादः अर्थवादपक्षेऽपि न सर्वा स्तुतिः समानफलेत्यतो विशिष्टफलहेतुत्वेनाऽत्रैव यत्नः कार्यः, तुल्ययत्नादेव विषयभेदेन फलभेदोपपत्ते बब्बूलकल्पपादपादौ प्रतीतमेव.
___ (अर्थात् सर्वा स्तुतिः समानफलदात्री न भवति, भिन्न-भिन्न-फलदात्री भवति, एकस्तुतितोऽन्या, फलभेददात्री भवति, ततः यक्षादिस्तुतित एषा भगवद् द्वीरस्तुतिः फलातिशयदात्री भवत्यतः वीरपरमात्मस्तुतावेव प्रयत्नः कार्यः, अन्यस्तुतिभ्यो वीरपरमात्मस्तुतिरत्र प्रशंसारूपत्वेनैषोऽर्थवादपक्षो घटनीयः)
समाने प्रयत्ने सत्येव विषय (निमित्त) स्य भिन्नतायां फलं भिन्नं भवति. बब्बूल(कण्टकवृक्ष) स्य च कल्पवृक्षस्य भजने (प्रयत्नसमानतायां) यथा बब्बूलवृक्षसेवनतः कल्पवृक्षस्य सेवने विशिष्टं फलं प्राप्नोति.
विषयभेदेन फलभेदः सुतरां सिद्धः, प्रयत्नसमानतायां सत्यां, अत: प्रस्तुते वीराय नमः, वीरनमस्कार-प्रयत्नस्य विषयः परमात्मा वीरोऽस्ति किञ्च, एष परमात्मा, अन्ययक्षादिभ्योऽतिशेते, उपमातीतत्वेन विशिष्यते, वीरनमस्कारविषयकप्रयत्ने विशिष्टफलदातैव. यतो दृष्टेः समक्षं, उन्नतादर्शवशेन, उन्नतोऽध्यवसाय एव.
भगवन्नमस्कारश्च परमात्मविषयतयोपमातीतो वर्त्तते,
अर्थाद् "कल्पद्रुमेत्यादिश्लोकः" कल्पद्रुमः-कल्पवृक्षः “परोमन्त्रो" हरिणेगमेषादिः, पुण्यं-तीर्थकरनामकर्मादि, चिन्तामणि-विशेषो यो गीयते-यः श्रूयते जगतीष्टफलदायितया 'तथैव' गीयमान-कल्पद्रुमादिप्रकार एव, स भगवत्स्तव-नमस्कार, आहुरपण्डिताः-अकुशला, एतदिति शेषः,
अत्रोच्चः कल्पवृक्षः, उच्चो-मंत्रत्वेन हरिणैगमेषिदेवादिः इष्टफलार्थे प्रत्यक्षकरणाय जप्यमानो मंत्रः, उच्च-पुण्य-तीर्थकरनामकर्मादि-पुण्यप्रकृतिज्ञेया, चिन्तामणि-विशेषो जगति,