________________
ललितविस्तरासंस्कृतटीका
यजेत ः पचेतेत्यादि विधिप्रत्ययेनेष्टसाधनत्वोपस्थापनात् (त. कौ.)
किञ्चातः ? (तथाचैतस्मात् किं ?) यद्याद्यः पक्षः, ( प्रशंसामात्रत्वात् ) स्तुत्यर्थवादरूप - प्रथमपक्षे स्तुत्यर्थप्रशंसावाचक - वाक्यतः (ततः) यथोक्तफलशून्यत्वात्, फलान्तरभावे च तदन्य( वीर - विभु - भिन्नान्य) स्तुतितः, अविशेषात् - विशेषाभावेन वीरस्तुतिविषयक प्रयत्नेनाऽलं - कृतं, न च यक्षस्तुतिरप्यफलैवेति प्रतीतमेवैतत् .
१६१
अथ चरमो विकल्पः (विधिवादरूपः ) ततः सम्यक्त्वाणुव्रत - महाव्रतादि - चारित्रपालनावैयर्थ्य, तत एव मुक्ति-सिद्धेः न च फलान्तरसाधकमिष्यते सम्यक्त्वादि, मोक्षफलत्वेनेष्टत्वात्, “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः " (तत्त्वा. अ. १, सू. १) इति वचनादिति.
,
एवमर्थवाद - दृष्टाऽथवा विधिवाददृष्ट्या, एतद् " इक्कोऽवि नमुत्रकारो" वचनमेकवीरनमस्कारोऽथवाऽन्यसम्यक्त्वादि निष्फलो भवतीति, एवं वचनं कथं कथितं ? इति पूर्वपक्षोऽस्ति. उत्तरपक्षः =अत्रोच्यते, विधिवाद एवायम् । न च सम्यक्त्वादि - वैयर्थ्य, तत्त्वतस्तद्भाव एवाऽस्य भावात् दीनारादिभ्यो भूतिन्याय एषः, तदवन्ध्यहेतुत्वेन तथा तद्भावोपपत्तेः, अवन्ध्यहेतुश्चाऽधिकृतफल–सिद्धौ ।
'तत्त्वत इत्यादि' तत्त्वतो निश्चयवृत्त्या 'तद्भाव एव' सम्यग्दर्शनादिभाव एव 'अस्य' नमस्कारस्य भावाद्, द्रव्यतः पुनरन्यथाऽप्ययं स्यादिति तत्त्वग्रहणं, इदमेव सदृष्टान्तमाह'दीनारादिभ्यो' दीनारप्रभृति - प्रशस्तवस्तुभ्यो 'भूतिन्यायो' विभूति दृष्टान्तस्तत्सदृशत्वाद् भूतिन्याय 'एषः ' सम्यक्त्वादिभ्यो नमस्कारः, एतदपि कुत इत्याह- 'तदवन्ध्यहेतुत्वेन ' तस्य नमस्कारस्य साध्यस्याऽवन्ध्यहेतुत्वेन - नियत फलकारिहेतुभावेन सम्यक्त्वादीनां ' तथा ' भावनमस्काररूपतया ' तद्भावोपपत्तेः ' सम्यक्त्वादीनां परिणत्युपपत्तेः, मूतिपक्षे तु तस्याःमृतेरवन्ध्यहेतुत्वेन दीनारादीनां तथा: - भूतितया, तेषां - दीनारादीनां परिणते र्घटनादिति योज्या इति । भवतु नामैवं तथाऽपि कथं प्रकृतसंसारोत्तारसिद्धिरित्याशङ्क्याह – 'अवन्ध्यहेतुश्च' अस्खलितकारणं च 'अधिकृत फलसिद्धौ' मोक्षलक्षणायां ।
८
भावनमस्कार इति भगवत् - प्रतिपत्तिरूप इति,
२४
अर्थात् - मोक्षरूपाधिकृतफलसिद्धि प्रति भगवत्प्रतिपत्तिनामकभावनमस्कारः, " तुरियभेदपडिवती पूजा, उपशभ खीण सजोगी रे । चउहा पूजा इम उत्तरज्झयणे भाषी केवल भोगी रे ।। " ( आ. चो. सुविधि. स्त. ७)