________________
१६०
ललितविस्तरासंस्कृतटीका 'भूतिन्यायो विभूतिदृष्टान्तस्तत्सदृशत्वाद् भूतिन्याय 'एषः' सम्यक्त्वादिभ्यो नमस्कारः, एतदपि कुत इत्याह-'तदवन्ध्यहेतुत्वेन' यस्य-नमस्कारस्य साध्यस्यावन्ध्यहेतुत्वेन-नियतफलकारिहेतुभावेन सम्यक्त्वादीनां, ' तथा ' भावनमस्काररूपतया 'तद्भावोपपत्तेः' सम्यक्त्वादीनां परिणत्युपपत्तेः, भूतिपक्षे तु तस्याः-भूतेरवन्ध्यहेतुत्वेन दीनारादीनां तथा-भूतितया तेषां-दीना रादीनांपरिणतः घटनादिति योज्या इति, भवतु नामैवं तथाऽपि कथं प्रकृतसंसारोत्तारसिद्धिरित्याशङ्कयाह'अवन्ध्यहेतुश्च' अस्खलितकारणं च “ अधिकृतफलसिद्धौ” मोक्षलक्षणायां
____ "भावनमस्कारो" भगवत्प्रतिपत्तिरूप इति, कथं न मोक्षफलं सम्यग्दर्शनादि १, परम्परया मोक्षस्य तत्फलत्वादिति “कल्पद्रमेत्यादिश्लोकः” कल्पद्रमः-कल्पवृक्षः “परो मन्त्रो" हरिणेगमेषादिः, पुण्यं-तीर्थकरनामकादि चिन्तामणिविशेषो गीयते-यः श्रूयते जगतीष्टफलदायितया “तथैव” गीयमानकल्पद्रुमादिप्रकार एव, स भगवंस्तव नमस्कार आहुरपण्डिताःअकुशला एतदिति शेषः,
टी०...पूर्वपक्षः(वादी) आह-किमेष 'स्तुत्यर्थवादः' इति, स्तुतये-स्तुत्यर्थं, अर्थवाद:प्रशंसा, स्तुत्यर्थवादो, विप्लावनाद्यर्थमपि, अर्थवादः स्यात् , तद्व्यवच्छेदार्थ स्तुतिग्रहणमिति (अर्थवादः(शब्दः) अर्थस्य प्रयोजनस्य वादो वादनम् । विध्यर्थ-प्रशंसापरं वचनमित्यर्थः अर्थवादो हि स्तुत्यादिद्वारा विध्यर्थ शीघ्र' प्रवृत्तये प्रशंसति, (गौ. वृ. २:२।६३) अर्थवादश्चतुविधः । स्तुतिः, निन्दा, परकृतिः पुराकरुप: (गौ. २।१।६४) प्रकारान्तरेण स त्रिविधः । गुणवादः, अनुवादः, मृतार्थवादश्चेति (न्या. मं. ४ पृ. ३०) तदुक्तं विरोधे गुणवादः स्यादनुवादोऽवधारिते भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः । (न्या. मं० ४ पृ. ३१)
यथा-एकया पूर्णाहुत्या सर्वान् कामानवाप्नोतीति, उत विधिवाद एव यथा 'अग्निहोत्रं' जुहुयात्स्वर्गकाम' इति.
(विधिवादः अत्र विधिशब्दस्य विधिरूपशब्दे, इष्टसाधनत्वादिरूपे विध्यर्थे च प्रयोगो दृश्यते । तत्र विधायक इति आद्योऽर्थः यद्वाक्यं विधायकं चोदकं स विधिः । विधिस्तु नियोगोऽनुज्ञा वा यथा, अग्निहोत्रं जुहुयात्स्वर्गकामः (शतपथ. २) इत्यादि (वात्स्या. २।१।६३) विध्यभिधायकप्रत्ययः, तद्घटितवाक्यं वा (न्या. मं. ४) तदर्थश्च विधीयते विधिरूपशब्देन प्रतिपाद्यतेऽसौ विधिरिष्टसाधनत्वादिः । तस्याऽभिधायको वाचक इति, अथवा अर्थविशेषाभिधायकः प्रत्ययः स च प्रत्ययो लिट् लोट् लेट् तव्यकृत्यप्रत्ययरूप इति (सि. च.) (भ. पं. ४ पृ. ५८) (त. प. सं. ४ पृ. ९३) प्रवृत्तिपरं वाक्यं । यथा ज्योतिष्टोमेन स्वर्गकामो यजेत (शतपथ.) ओदनकामस्तण्डुलं पचेतेत्यादि । अत्र ज्योतिष्टोमनामको यागः स्वर्गरूपेष्टसाधनम् , तण्डुलकर्मकः पाकः, ओदनरूपेष्टसाधनमुभयवाक्यार्थः ।