Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 507
________________ ललितविस्तरासंस्कृतटीका शून्यत्वात् फलान्तरभावे च तदन्यस्तुत्यविशेषादलमिहैव यत्नेन,न च यक्षस्तुतिरप्यफलैवेति, प्रतीतमेवैतत् , अथ चरमो विकल्पः ततः सम्यक्त्वाणुव्रत-महावता-दिचारित्रपालनावैयर्थ्य, तत एव मुक्तिसिद्धेः, न च फलान्तरसाधकमिष्यते सम्यक्त्वादि, मोक्षफलत्वेनेष्टत्वात् 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' (तत्त्वार्थे अ० १ सू० १) इति वचनादिति, अत्रोच्यते, विधिवाद एवायं, न च सम्यक्त्वादिवैयर्थ्य, तत्त्वतस्तद्भाव एवास्य भावात् , दीनारादिभ्यो भूतिन्याय एषः, तदवन्ध्यहेतुत्वेन तथा तद्भावोपपत्तेः, अवन्ध्यहेतुश्चाधिकृतफलसिद्धौ भावनमस्कार इति, अर्थवादपक्षेऽपि न सर्वा स्तुतिः समानफलेत्यतो विशिष्टफलहेतुत्वेनात्रैव यत्नः कार्यः, तुल्ययत्नादेव विषयभेदेन फलभेदोपपत्तेर्बब्बूलकल्पपादपादौ प्रतीतमेतत्, भगवन्नमस्कारश्च परमात्मविषयतयोपमातीतो वर्त्तते, यथोक्तम् 'कल्पद्रुमः परो मत्रः, पुण्यं चिन्तामणिश्च यः। गीयते स नमस्कारस्तथैवाहुरपण्डिताः ॥१॥ कल्पद्रुमो महाभागः, कल्पनागोचरं फलम् । ददाति न च मन्त्रोऽपि, सर्वदुःखविषापहः ॥२॥ न पुण्यमपवर्गाय, न च चिन्तामणिर्यतः । तत्कथं ते नमस्कार, एभिस्तुल्योऽभिधीयते? ।३। इत्यादि" ॥ पं०...' स्तुत्यर्थवाद इति ' स्तुतये-स्तुत्यर्थ अर्थवादः-प्रशंसा स्तुत्यर्थवादो, विप्लावनाद्यर्थमपि अर्थवादः स्यात् , तद्वयवच्छेदार्थ स्तुतिग्रहणमिति, 'तत्त्वत इत्यादि' तत्त्वतो निश्चयवृत्त्या 'तद्भाव एव' सम्यग्दर्शनादिभाव एव 'अस्य' नमस्कारस्य भावाद् , दव्यतः पुनरन्यथाऽप्ययं स्यादिति तत्त्वग्रहणं, इदमेव सदृष्टान्तमाह- दीनारादिभ्यो' दीनारप्रभृतिप्रशस्तवस्तुभ्यो

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550