Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 508
________________ १६० ललितविस्तरासंस्कृतटीका 'भूतिन्यायो विभूतिदृष्टान्तस्तत्सदृशत्वाद् भूतिन्याय 'एषः' सम्यक्त्वादिभ्यो नमस्कारः, एतदपि कुत इत्याह-'तदवन्ध्यहेतुत्वेन' यस्य-नमस्कारस्य साध्यस्यावन्ध्यहेतुत्वेन-नियतफलकारिहेतुभावेन सम्यक्त्वादीनां, ' तथा ' भावनमस्काररूपतया 'तद्भावोपपत्तेः' सम्यक्त्वादीनां परिणत्युपपत्तेः, भूतिपक्षे तु तस्याः-भूतेरवन्ध्यहेतुत्वेन दीनारादीनां तथा-भूतितया तेषां-दीना रादीनांपरिणतः घटनादिति योज्या इति, भवतु नामैवं तथाऽपि कथं प्रकृतसंसारोत्तारसिद्धिरित्याशङ्कयाह'अवन्ध्यहेतुश्च' अस्खलितकारणं च “ अधिकृतफलसिद्धौ” मोक्षलक्षणायां ____ "भावनमस्कारो" भगवत्प्रतिपत्तिरूप इति, कथं न मोक्षफलं सम्यग्दर्शनादि १, परम्परया मोक्षस्य तत्फलत्वादिति “कल्पद्रमेत्यादिश्लोकः” कल्पद्रमः-कल्पवृक्षः “परो मन्त्रो" हरिणेगमेषादिः, पुण्यं-तीर्थकरनामकादि चिन्तामणिविशेषो गीयते-यः श्रूयते जगतीष्टफलदायितया “तथैव” गीयमानकल्पद्रुमादिप्रकार एव, स भगवंस्तव नमस्कार आहुरपण्डिताःअकुशला एतदिति शेषः, टी०...पूर्वपक्षः(वादी) आह-किमेष 'स्तुत्यर्थवादः' इति, स्तुतये-स्तुत्यर्थं, अर्थवाद:प्रशंसा, स्तुत्यर्थवादो, विप्लावनाद्यर्थमपि, अर्थवादः स्यात् , तद्व्यवच्छेदार्थ स्तुतिग्रहणमिति (अर्थवादः(शब्दः) अर्थस्य प्रयोजनस्य वादो वादनम् । विध्यर्थ-प्रशंसापरं वचनमित्यर्थः अर्थवादो हि स्तुत्यादिद्वारा विध्यर्थ शीघ्र' प्रवृत्तये प्रशंसति, (गौ. वृ. २:२।६३) अर्थवादश्चतुविधः । स्तुतिः, निन्दा, परकृतिः पुराकरुप: (गौ. २।१।६४) प्रकारान्तरेण स त्रिविधः । गुणवादः, अनुवादः, मृतार्थवादश्चेति (न्या. मं. ४ पृ. ३०) तदुक्तं विरोधे गुणवादः स्यादनुवादोऽवधारिते भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः । (न्या. मं० ४ पृ. ३१) यथा-एकया पूर्णाहुत्या सर्वान् कामानवाप्नोतीति, उत विधिवाद एव यथा 'अग्निहोत्रं' जुहुयात्स्वर्गकाम' इति. (विधिवादः अत्र विधिशब्दस्य विधिरूपशब्दे, इष्टसाधनत्वादिरूपे विध्यर्थे च प्रयोगो दृश्यते । तत्र विधायक इति आद्योऽर्थः यद्वाक्यं विधायकं चोदकं स विधिः । विधिस्तु नियोगोऽनुज्ञा वा यथा, अग्निहोत्रं जुहुयात्स्वर्गकामः (शतपथ. २) इत्यादि (वात्स्या. २।१।६३) विध्यभिधायकप्रत्ययः, तद्घटितवाक्यं वा (न्या. मं. ४) तदर्थश्च विधीयते विधिरूपशब्देन प्रतिपाद्यतेऽसौ विधिरिष्टसाधनत्वादिः । तस्याऽभिधायको वाचक इति, अथवा अर्थविशेषाभिधायकः प्रत्ययः स च प्रत्ययो लिट् लोट् लेट् तव्यकृत्यप्रत्ययरूप इति (सि. च.) (भ. पं. ४ पृ. ५८) (त. प. सं. ४ पृ. ९३) प्रवृत्तिपरं वाक्यं । यथा ज्योतिष्टोमेन स्वर्गकामो यजेत (शतपथ.) ओदनकामस्तण्डुलं पचेतेत्यादि । अत्र ज्योतिष्टोमनामको यागः स्वर्गरूपेष्टसाधनम् , तण्डुलकर्मकः पाकः, ओदनरूपेष्टसाधनमुभयवाक्यार्थः ।

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550