Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 497
________________ ललितविस्तरासंस्कृतटीका अतीर्थसिद्धाः, तदा तीर्थस्यानुत्पन्नत्वात् , तीर्थकरसिद्धाः तीर्थकरा एव, अतीर्थकरसिद्धा अन्ये सामान्यकेवलिनः, स्वयबुद्धसिद्धाः स्वयंबुद्धाः सन्तो ये सिद्धाः, प्रत्येकबुद्धसिद्धाः प्रत्येकबुद्धाः सन्तो ये सिद्धाः, अथ स्वयंबुद्धप्रत्येकबुद्धसिद्धयोः कः प्रतिविशेष इति, उच्यते, बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथाहि -स्वयंबुद्धा बाह्यप्रत्ययमन्तरेण बुध्यन्ते, प्रत्येकबुद्धास्तु न तद्विरहेण, श्रूयते च बाह्यवृषभादिप्रत्ययसापेक्षा करकण्ड्वादीनां प्रत्येकबुद्धानां बोधिः, नैवं स्वयंबुद्धानां जातिस्मरणादोनामिति, उपधिस्तु स्वयंबुद्धानां द्वादशविधः पात्रादिः, प्रत्येकबुद्धानां तु नवविधः प्रावरणवर्जः, स्वयंबुद्धानां पूर्वाधीतश्रुतेऽनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिङ्गप्रतिपत्तिः स्वयंबुद्धानामा चार्यसन्निधावपि भवति, प्रत्येकबुद्धानां तु देवता प्रयच्छतीत्यलं विस्तरेण, वुद्धबोधितसिद्धा बुद्धा आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते इह गृह्यन्ते, एते च सर्वेऽपि स्त्रीलिङ्गसिद्धाः केचित् केचित्पुंल्लिङ्गसिद्धाः केचिन्नपुंसकलिङ्गसिद्धा इति । आहतीर्थकरा अपि स्त्रीलिङ्गसिद्धा भवन्ति ? भवन्तीत्याह, यत उक्तं सिद्धप्राभृते-'सवत्थोवा तित्थयरिसिद्धा, तित्थगरितित्थे णो तित्थगरसिद्धा असंखेजगुणाओ तित्थगरितित्थे णोतित्थगरसिद्धा संखेज्जगुणा” इति न नपुंसकलिङ्गसिद्धाः, प्रत्येक्वबुद्धास्तु पुँल्लिङ्गा एव, स्वलिङ्गसिद्धा द्रव्यलिङ्गं प्रति रजोहरणगोच्छधारिणः, अन्यलिङ्गसिद्धाः परिव्राजकादिलिङ्गसिद्धाः, गृहिलिङ्गसिद्धा मेरुदेवी प्रभृतयः, " एगसिद्धा” इति एकस्मिन् समये एक एव सिद्धः, "अणेगसिद्धा” इति एकस्मिन् समये यावदष्टोत्तरशतं सिद्ध, यत उक्तम्

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550