Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 502
________________ १५४ ललितविस्तरासंस्कृतटीका तं, इत्थं स्तुतिं कृत्वा पुनः परोपकारायाऽऽत्मभाववृद्धयै, फलप्रदर्शनपरमिदं पठति पठन्ति वा ॥ " इक्कोऽवि णमोकारो, जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ, तारेइ नरं व नारिं वा ॥३॥ अस्य व्याख्या-' एकोऽपि' नमस्कारः, तिष्ठन्तु बहवः 'जिनवरवृषभाय ' वर्द्धमानाय यत्नात् क्रियमाणः सन् किम् ?संसरणं संसार:-तिर्यग्नरनारकामरभवानुभवलक्षणः, स एव भवस्थितिकायस्थितिभ्यामनेकधाऽवस्थानेनालब्धपारत्वात्सागर इव संसारसागरः, तस्मात् तारयति-अपनयतीत्यर्थः, 'नरं व नारिं वा' पुरुष वा स्त्रियं वा, पुरुषग्रहणं पुरुषोत्तमधर्मप्रतिपादनाथ, स्त्रीग्रहणं तासामपि तद्भव एव संसारक्षयो भवतीति ज्ञापनार्थ, ____टी०.... (बाल्ये जयेच्छु-लघुयानपलायमानः, क्रीडन् सुरैर्युतिसमेत - इति स्तुतो यः। देव ! त्वमेव भगवन्नसि देवदेवो, देवाधिदेवमुदुशंति भवन्तमेव ।) ___ श्रुतजिनावधिजिनादिजिनानां-सामान्यकेवलिषु, तीर्थकरनामकर्मणः-उदयेन, उत्तमवृषभतुल्याः , अयमत्रभावः-सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारः, तथा भूतस्य भावचरणरूपशुभाध्यवासयस्य हेतुर्भवति. यस्माद् , श्रेणिमवाप्य निस्तरति भवोदधिं, अतः कार्ये कारणोपचाराद्, एवमुच्यते । ' भवस्थितिस्तद्भवायुः' 'कायस्थितिस्तु पृथिवीकायिकादिशरीरिणाम् । तत्रैवो कायेऽवस्थानं विपद्योत्पद्य चासकृत् ' । -अथ शास्त्रकारः यापनीयतन्त्रस्य पाठदत्त्वा स्त्रीमुक्तिविषयकं विषय, अत्यन्तं विशिष्टं निरूपयति ___वचः यथोक्तं यापनीयतन्त्रे-“णो खलु इत्थि अजीवो ण यावि अभवा ण यावि दंसणविरोहिणी णो अमाणुसा णो अणारिउप्पत्ती णो असंखेजाउया णो अइकूरमई णो ण उवसन्त

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550