Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 498
________________ ललितविस्तरासंस्कृतटीका "बनोसा अडयाला सट्टी बावत्तरो य बोद्धव्वा । चुलसोई छण्णउई दुरहिय अहुत्तरसयं च ॥१॥" अत्राह चोदकः-ननु सर्व एवैते भेदास्तीर्थसिद्धअतीर्थसिद्धभेदद्वयान्तर्भाविनः, तथाहि-तोर्थसिद्धा एव तीर्थकसिद्धाः, अतीर्थकरसिला अपि तीर्थसिद्धा वा स्युरतीर्थसिद्धा वा, इत्येवं शेषेष्वपि भावनीयमित्यतः किमेभिरिति, अत्रोच्यते, अन्तर्भावे सत्यपि पूर्वभेदद्वयादेवोत्तरोत्तरभेदाप्रतिपत्तेरज्ञातज्ञापनार्थं भेदाभिधानमित्यदोषः ॥ पं०...'न नपुंसकलिङ्ग' इति नपुंसकलिङ्कगे तीर्थकरसिद्धा न भवन्तीति योज्यम टी..... 'सर्वसिद्धेभ्यः' तीर्थसिद्धादिभेदभिन्नेभ्यः, यथोक्तम् ।। (१) 'तीर्थसिद्धाः 'तत्र तीर्थ प्रागव्यावणितस्वरूपं, तच्चतुर्विधः श्रमणप्रधानसङ्घः, तस्मिन्-तीर्थे, उत्पन्ने सति ये सिद्धाः-तीर्थास्तित्वं यावत् सिद्धाः. (२) 'अतीर्थसिद्धाः' अतीर्थे सिद्धाः, अतीर्थसिद्धाः-तीर्थान्तरसिद्धा इत्यर्थः । श्रयते च "जिणंतरे साहुवोच्छेओ" ति तत्रापि जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिद्धयन्त्येव, मरुदेवी-प्रभृतयो वाऽतीर्थसिद्धाः, तदातीर्थस्याऽनुत्पन्नत्वात् , अर्थात् , तीर्थे विच्छिन्ने वा तीर्थेऽनुत्पन्ने, अतीर्थे नवमसुविधिनाथदशमशीतलनाथ-भगवतोरन्तरे-मध्ये-व्यवधानकाले तीर्थ (साधु)विच्छेदोऽभूत् , तथाऽपि जातिस्मरणादिद्वारा प्राप्तमोक्षमार्गाः (सम्यगदर्शनज्ञानचारित्ररूपमोक्षमार्गाः ) सिद्धयन्त्येव. (३) तीर्थकरसिद्धाः तीर्थकरा एव तीर्थकर-सिद्धाः. (४) अतीर्थकर-सिद्धाः तीर्थक रेभ्योऽन्ये सामान्य-केवलिनः. (५) स्वयंबुद्धसिद्धाः स्वयंबुद्धाः सन्तो ये सिद्धाः, अर्थात् गुरोरुपदेशं विना तथा किञ्चिद्वाह्यनिमित्तं विना, कर्मणां कृशत्वेन, संसारासारताया ज्ञाने एतद्भावनाया उत्कटत्वेन केवलज्ञानं प्राप्य सिद्धाः-स्वयंबुद्धसिद्धाः. (६) प्रत्येकबुद्धसिद्धाः ऐन्द्रचापवत् सन्ध्यासत्कवादलरूपाणि परिवर्तन्ते तथा संसारे भौतिक वस्तु क्षणिकमिति समीक्ष्यार्थात् किञ्चिदपि किंविधमपि वैराग्यजनकं निभित्तं सम्प्राप्य केवलज्ञानमधिगम्य सिद्धाः प्रत्येकबुद्धसिद्धोः,

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550