________________
ललितविस्तरासंस्कृतटीका
शङ्का स्वयंबुद्धसिद्धप्रत्येक-बुद्धसिद्धयोः कः प्रतिविशेषः ?
समाधानम् =प्रत्येकबुद्धस्वयंबुद्धसिद्धयोर्मध्ये भेदमहत्त्वापेक्षया, बोध्युपधिश्रतलिङ्ग (वेष) भेदास्तु भेदः-विशेषः,
(१) बोधिभेदः स्वयंबुद्धा बाह्यनिमित्तं विहाय जातिस्मरणादिना बुद्धयन्ते, प्रत्येकबुद्धास्तु वाह्यनिमित्तनैव बुद्ध्यन्ते श्रूयते च बाह्यवृषभादि-प्रत्यय (निमित्त) सापेक्षःकरकण्डवादीनां प्रत्येकबुद्धानां बोधिः, एवं जातिस्मरणादीनां स्वयंबुद्धानां बाह्यप्रत्ययसापेक्षो बोधि न भवति.
(२) उपधिभेदः= उपधिस्तु स्वयंबुद्धानां द्वादशविधः पात्रादिः, प्रत्येकबुद्धानां तु नवविधः प्रावरणवजः,
(यः सर्वदा धार्यते स औधिक उपधिः, स चतुर्दशविधः, तद् यथा १-पात्रकं २-पात्रबन्धनं (झोलिका) ३-पात्रकेशरिका (लध्वीपूंजणी) ४-गुच्छकं (गुच्छा) ५-पात्रस्थापना ६–पटलकं (पडला) ७-रजस्त्राणं ८ कल्पप्रावरणं (चादर-कपडो-कामली) ९रजोहरणं (धर्मध्वज-ओधो) १०-मुखवस्त्रिका ११- मात्रकं १२-चोलपट्टकं १३-संस्तारकं (संथारो) १४-उत्तरपट्टकं (उत्तरपट्टो) तेभ्यः चोलपट्टकं च मात्रकं वर्जयित्वा द्वादशविध उपधिः स्वयंबुद्धानां भवति. प्रावरणं-कल्पः सार्ध त्रयहस्तायामः सार्धहस्तद्वय-विस्तार एष कल्पो भवति. सर्व संभ्य सौत्रिकद्वयं एकमौर्णिकमेवं त्रयं भवति.)
(३) श्रुतभेदः स्वयंबुद्धानां पूर्वाऽधीतश्रुतेऽनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिङ्गप्रतिपत्तिः, स्वयंबुद्धानामाचार्यसन्निधावपि भवति, प्रत्येकबुद्धोनां तु देवता प्रयच्छतीत्यलं विस्तरेण,
अर्थात् , स्वयंबुद्धानां पूर्वे अधीतश्रुतविषये नियमो नास्त्येव, पूर्वाऽधीत श्रुतज्ञाने सत्येव, देवः साधुवेषमर्पयति, अथवा गुरुपार्श्व गत्वैव साधुवेषं गृह्णाति,
अर्थात् -पूर्वाऽधीतश्रुतविषये नियमो नास्ति, प्रत्येकबुद्धानां तु पूर्वाऽधीतश्रुतं नियमाद् भवत्येव. तत्रापि जघन्यत एकादशाऽङ्गानि, उत्कर्षतश्च दशपूर्वेभ्यश्च किश्चिन्न्यूनं ज्ञेयम् ,
(७) बुद्धबोधितसिद्धाः=बुद्धा आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते इह गृह्यन्ते, एवे च सर्वेऽपि, स्त्रीलिङ्गसिद्धाः केचित् , केचित्पुंलिङ्ग-सिद्धाः, केचिन्नपुंसकलिङ्गसिद्धा इति ।
अर्थात् -पूर्वोक्तसप्तविधाः, तीर्थातीर्थ-तीर्थकरा-तीर्थकरसिद्ध-स्वयंबुद्ध-प्रत्येकबुद्ध-बुद्धबोधितसिद्धा अपि त्रिभेदाः स्युः,