________________
ललितविस्तरासंस्कृतटीका
(८) स्त्रीलिङ्गसिद्धाः स्त्रीत्वसूचकचिहविशिष्टदेहे ये केचित् सिद्धाः स्त्रीलिङ्गसिद्धाः कथ्यन्ते
केचित् प्रत्येकबुद्धं विना, स्त्रीलिङ्गसिद्धत्वेन, तीर्थातीर्थ-तीर्थकरा-तीर्थकर-स्वयंबुद्धबुद्धदोधितसिद्धत्वेन षोढा सिद्धा भवन्ति.
(९) पुरुषत्वसूचक-चिह्नित-देहे ये सिद्धास्ते पुलिंगसिद्धाः.. (१०) कृत्रिमनपुंसकत्व-सूचकदेहे सिद्धाः नपुंसकलिंगसिद्धाः.
शङ्का तीर्थकरा अपि स्त्रीलिङ्गसिद्धा भवन्ति ! भवन्तीत्याह, यत उक्तं सिद्धप्राभृते "सव्वत्थोवा तित्थयरि सिद्धा, तित्थगरितित्थे णो तित्थगरसिद्धा असंखेज्जगुणाओ तित्थयरि तित्थे णो तित्थगरसिद्धा संखेजगुणा"
सर्वस्तोकाः तीर्थकरीसिद्धोः, तीर्थकरी-तीर्थे नोतीर्थकरसिद्धाः (तेभ्यः) संख्यातगुणाः, तीर्थकरी तीर्थे नोतीर्थकरीसिद्धाः संख्यातगुणाः, तीर्थकरी-तीर्थे नोतीर्थकरसिद्धाः संख्यातगुणा इति (नोतीर्थसिद्धाः प्रत्येकबुद्धसिद्धाः कथ्यन्ते, अत्र तीर्थमर्थात् रजोहरण-मुखवस्त्रिका, कदाचिद् कस्यचित्प्रत्येक बुद्धस्य न भवति) नो तीर्थकरी सिद्धाः तीर्थकरं विना स्त्रीलिङ्गसिद्धाः नोस्त्रीतीर्थकरसिद्धा उच्यन्ते,
न नपुंसकलिङ्ग-सिद्धाः=नपुंसकलिङ्गे तीर्थकर-सिद्धा न भवन्ति,
प्रत्येकबुद्धास्तु पुंलिङ्गा एव=प्रत्येकबुद्धास्तु पुंलिङ्ग एब सिद्धा भवन्ति स्त्रीनपुंसकलिङ्गयो न सिद्धा भवन्ति.
(११) स्वलिङ्गसिद्धाः=द्रव्यलिङ्गं प्रति रजोहरणगोच्छधारिणः, जैनसाधुवेषेण सिद्धाःद्रव्यलिङ्ग-बाह्यवेषापेक्षया, अत्र रजोहरण-गोच्छकादि-पात्र-निर्योग-धारणेन सिद्धाःस्युः.
(१२) अन्यलिङ्गसिद्धाः=परिव्राजकादिलिङ्गसिद्धाः, अर्थात् ये जनेतरवेषे परिव्राजकसन्न्यासिप्रभृतिरूपा भूत्वा सिद्धा भवेयुः, यद्यपि एतेषां जातिस्मरणादिना केवलज्ञानस्य प्रादुर्भावाऽनन्तरं, आयुरवशिष्टं भवेत्तदा देवः जैनमुनिवेषं समर्पयति, ततो मुनिवेषे सिद्धा भवन्ति.
(१३) गृहिलिङ्गसिद्धाः गृहिलिङ्गसिद्धा मरुदेवी-प्रभृतयः । गृहस्थवेषे सिद्धा, यथा मरुदेव्यादयः.
(१४) एकसिद्धाः एकस्मिन् समये एक एव सिद्धः इति. (१५) अनेकसिद्धाः एकस्मिन् समये यावदष्टोत्तरशतं सिद्धाः, यत उक्तम् -
“बत्तीसा अडयाला सट्ठी वायत्तरी य बोद्धव्वा । चुलसीई छण्णउई दुरहिय अट्टत्तरशतं ।।",