________________
ललितविस्तरासंस्कृतटीका
१५३
सिद्धसततसमय
___ सिद्धसततसमय= १ २ ३ ४ ५ ६ ७ ८ यावद् भवति तदा प्रत्येकसमये, अधिकाधिक=१०८ | १०२ ९६८४७२६०४८३२ यावत् सिद्धा भवेयुः ।
शङ्का ननु सर्व एवैते भेदास्तीर्थसिद्धाऽतीर्थसिद्धभेदद्वयान्त विनः, तथाहि तीर्थसिद्धा एव तीर्थकरसिद्धाः । अतीर्थकर-सिद्धा अपि तीर्थसिद्धा वा स्युरतीर्थसिद्धा वा इति एवं शेषेष्वपि भावनीयमित्यतः किमेभिरिति ?
समाधानम् =अत्रोच्यते, अन्तर्भावे सत्यपि पूर्वभेदद्वयादेवोत्तरोत्तरभेदाऽप्रतिपत्तेर ज्ञात ज्ञापनार्थ भेदाभिधानमित्यदोषः । अर्थाद् , अन्तर्भावे सत्यपि द्वितीयतीर्थकरसिद्धादीनां तीर्थकरसिद्धत्वादिरूपेण-तत्तद्रूपेण सिद्धीभवनस्य बोधो न भवेद् , यथेष तीर्थकरसिद्धः कथ्यते, एष गृहिलिङ्गसिद्धः, एष एकसिद्धः कथ्यते, एवं शृङ्गग्राहिकया सर्वभेदप्रतिपत्तेरभावेनाज्ञातस्य ज्ञापनार्थ ।
___ -अथ सिद्धस्तवसूत्रस्य, द्वितीय-तृतीय गाथायां व्याख्यां अवतरणिका-सहितां करोति
___ इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा पुनरासन्नोपकारित्वाद्वर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्द्धमानस्वामिनः स्तुति (करोति) कुर्वन्ति (वा,) “जो देवाणवि देवो, ज देवा पंजली नमसंति। तं देवदेवमहिअं, सिरसा वंदे महावीरं ॥२॥" अस्य व्याख्या-यो' भगवान्वर्द्धमानः 'देवानामपि ' भवनवास्यादीनां 'देवः' पूज्यत्वात् , तथाचाह-'यं देवाः प्राञ्जलयो नमस्यन्ति' विनयरचितकरपुटाः सन्तः प्रणमन्ति 'तं' 'देवदेवमहितं' देवदेवाः-शकादयः तैर्महितः-पूजितः 'शिरसा' उत्तमाड्रेनेत्यादरप्रदर्शनार्थमाह, वंदे, कं? 'महावीरम्' ईर गतिप्रेरणयोरित्यस्य विपूर्वस्य विशेषेण ईरयति कर्म गमयति याति चेह शिवमिति वीरः, महांश्चासौ वीरश्च महावीरः, उक्तञ्च-"विदारयति यत्कर्म, तपसा च विराजते ।
तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥१॥"
२०