Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृतटीका
१२१ तस्य-वचनस्यानादिभावात् “ तथात्वसिद्धः ” अपौरुषेयत्वसिद्धः, अस्यैव विपर्ययबाधकं पक्षान्तरमाह
"अवचनपूर्वकत्वं चैकस्य" यदि हि अपौरुषेयं वचनं नेष्यते तदाऽवचनपूर्वः कश्चिदेक आदौ वचनप्रवर्तकोऽर्हन्नभ्युपगन्तव्य इति भावः, एवमपि तर्हि अस्तु इत्याशय पर एवाह"तदपि" अवचनपूर्वकत्वं "तन्त्रविरोधि" सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इत्यागमविरोधि, कुत इत्याह-" न्यायतः" "सदकारणवन्नित्य" मिति नित्यलक्षणन्यायाद अनादिशद्धः-परपरिकल्पितसदाशिवादिवत् कश्चिदर्हन्निति वादप्रसङ्गादिति, " इतिः” परवक्तव्यतासमाप्त्यर्थः, परपक्षमाशड्क्योत्तरमाह-"न" नैव, एतत्परोक्तम्, अत्र हेतुमाह-" अनादित्वेऽपि " अविद्यमानादिभावेऽपि वचनस्य "पुरुषव्यापाराभावे" वचनश्वर्तकताल्वादिव्यापाराभावे "वचनानुपपत्त्या" उक्तनिरुक्तवचनायोगेन तत्तथात्वासिद्धेः, पक्षान्तरमपि निरस्यन्नाह
"न च” नैवावचनपूर्वकत्वं परोपन्यस्तं “कस्यचिद्" भगवतः, कुत इत्याह-"तदादित्वेन" वचनपूर्वकत्वेन “तदनादित्वविरोधात” तस्य-भगवतो, अनादित्वस्य-अवचनपूर्वकत्वाऽऽक्षिप्तस्य विरोधात्-निराकरणादिति, परमार्थमाह-" बीजाङ्कुरवदेतद् ” यथा बीजादकुरोऽकुराबीज तथा वचनादहन्नहतश्च वचनं प्रवर्तत इति, प्रकृतसिद्धिमाह-" ततश्च" बीजाकुरदृष्टान्ताच्च, अनादित्वेऽपि वचनस्य "प्रवाहतः” परम्परामपेक्ष्य " सर्वज्ञाभूतभवनवत्" सर्वज्ञस्यऋषभादिव्यक्तिरूपस्य प्रागभूतस्य भवनमिव वक्तृव्यापारपूर्वकत्वमेवाखिलवचनस्य लौकिकादिभेदमिन्नस्येति । नन्विति-पराक्षमायां, एवमिति-पौरुषेयत्वे, सर्वज्ञ एवास्य-वचनस्य वक्ता सदासर्वकालं नान्यः-तव्यतिरिक्तः, कुत इत्याह-तस्य-वचनस्यासाधुत्वप्रसङ्गाद्-अप्रामाण्यप्राप्तेः, वक्तृप्रामाण्याद्धि वचनप्रामाण्यमित्यस्माद्धेतोः.
" सः" सर्वज्ञः "अवचनपूर्वक एव कश्चित् " चिरतरकालातीतो “ नीतितः” अन्यथाऽपौरुषेयं वचनं स्यादिति नीतिमाश्रित्याभ्युपगन्तव्य इति गम्यते, अत्रोत्तरं-ननु वितर्कय बीजाकुरवदेतदित्यनेन ग्रन्थेन “प्रत्युक्तं” निराकृतमेतत्परिभावनीयं तु यत्नतः, तत्र सम्यक्परिभाविते पुनरित्थमुपन्यासायोगात् , न च जैनानां कचिदेकान्त इत्यपि प्रतिपादयन्नाहतथेति पक्षान्तरसमुच्चये, अर्थज्ञानशब्दरूपत्वाद्-अर्थः-सामायिकपरिणामादिर्ज्ञानं-तद्गतैव प्रतीतिः, शब्दो-वाचकध्वनिः तद्रूपत्वात्-तत्स्वभावत्वाद् अधिकृतवचनस्य-प्रकृतागमस्य ततः "शब्दवचनापेक्षया" शब्दरूपं वचनमपेक्ष्य 'न' नैवावचनपूर्वकत्वेऽपि कस्यचित्सर्वदर्शिनो दोषः-अनादिशुद्धवादापत्तिलक्षणः, समर्थकमाह-" मरुदेव्यादीनां" प्रथमजिनजननीप्रभृतीनां स्वयमेव पकभव्यत्वानां तथाश्रवणात्-शब्दरूपवचनानपेक्षयैव सर्वदर्शित्वश्रवणात् , अथ 'तप्पुत्विया अरहये' तिवचनं समर्थयन्नाह-" वचनार्थप्रतिपत्तित एव" वचनसाध्यसामा
Loading... Page Navigation 1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550