Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 470
________________ १२२ ललितविस्तरासंस्कृतटीका यिकाद्यर्थस्य ज्ञानानुष्ठानलक्षणस्य प्रतिपत्तित एव–अङ्गीकरणादेव, नान्यथा, “ तेषामपि" मरुदेव्यादीनाम् , अपिशब्दादृषभादीनां च " तथात्वसिद्धेः” सर्वदर्शित्वसिद्धेः " तत्त्वतो" निश्चयवृत्त्या नतु व्यवहारतोऽपि, “ तत्पूर्वकत्वं" वचनपूर्वकत्वमिति, एतदेव भावयति" भवति च विशिष्टक्षयोपशमादितो" विशिष्टाद्दर्शनमोहनीयादिगोचरात् क्षयक्षयोपशमोपशमात् "मार्गानुसारिबुद्धेः" सम्यग्दर्शनादिमोक्षमार्गानुयायिप्रज्ञस्य “वचनम् ” उक्तलक्षणमन्तरेणापि-विनापि “ तदर्थप्रतिपत्तिः” वचनार्थप्रतिपत्तिः, कुत इत्याह-“कचित्" प्रज्ञापनीये " तथादर्शनात् " वचनार्थप्रतिपत्तिदर्शनात् , कुत इदमित्याह-" संवादसिद्धेः" यदिदं त्वयोक्तं तन्मया स्वत एव ज्ञातमनुष्ठितं वेत्येवं प्रकृतार्थाव्यभिचारसिद्धः ॥ " एवं च” वचनपौरषेयत्वे “व्यक्तयपेक्षया" एकैकं सर्वदर्शिनमपेक्ष्य, “ नानादिशुद्धवादापत्तिः" न कश्चिदेकोऽनादिशुद्धः सर्वदर्शी वक्ता आपन्नः, कुत इत्याह-" सर्वस्य " सर्वदर्शिनः “ तथा" पूर्वोक्तप्रकारेण " तत्पूर्वकत्वात्" वचनपूर्वकत्वात् , “प्रवाहतस्तु" परम्परामपेक्ष्य इष्यत एवानादिशुद्धः, प्रवाहस्यानादित्वादिति, एवं न ममापि तत्त्वतोऽपौरषेयं वचनं यत् त्वया प्राक् प्रसञ्जितमिति, प्रपश्चितमेतदन्यत्र-सर्वज्ञसिद्धयादौ नेह प्रयासः प्रयत्नः, टी०....अत्र श्रुत-आगमस्याद्यत्पादकत्वेन तीर्थकरः परमपुरुषः कथितः, यथोक्तं (धर्मसारप्रकरणे वचनपरीक्षायां) अपौरुषेयं “पुरुषेणानुच्चरितं वचनं, वन्ध्यापुत्रवत्, खरविषाणतुल्यं, अपुरुषकृतं वचनं विदुषाऽनुपन्यसनीयं विद्वत्सभायां स्वरूपनिराकरणात्" (कश्चिदुच्चारकर्ता पुरुष एव नास्ति, ततः किं वचनं ? वचनं यत्पुरुषकृतं इति मे माता बन्ध्याऽसदसम्भवितं, पंडितपर्षदि, अपौरुषेयं वचनं पक्षत्वेन, (धर्मित्वेन) अव्यवहार्य यतः, अपौरुषेयत्वरूपसाध्यस्य धर्मिरूपवचनत्वेन सह बाधोऽस्ति. अर्थात् 'वेदवचनमपौरुषेयं नित्यनिर्दोषत्वात्, इत्यनुमानमपि न रक्षितव्यम् यतोऽस्मिन् पक्षोऽस्ति, वचनं , तत्त्वेन-वचनत्वेन साध्यापौरुषेयत्वस्य निषेधो भवतीति. तथाहि-उक्तिर्वचनम् उच्यत इति चेति पुरुषक्रियाऽनुगतं रूपमस्य 'एतद्वचनवस्तु' कस्यचिदपि पुरुषस्य वचनोच्चारक्रियया सह सम्बद्धं वर्तते, कश्चिदुच्चारकर्ता पुरुष एव नास्त्यतो वचनस्वरूपं केनचित् पुरुषेणोच्चरिततारूपपौरुषेयतासिद्धिर्भवति, वेदवचनेऽपौरुषेयताया अर्थःपुरुषानुच्चरितत्वम्, यद् यद् वचनं तत्तत् पौरुषेयमेव, यतो वेदादिकं वचनं वर्णात्मकं यथा कुमारसम्भवादिकं, वर्णात्मकत्वेनागमवेदादि पौरुषेयमेव. यथोक्त-वर्णसमुदायो निश्चयतस्ताल्वादिजन्य तथा वेदादिकं वर्णात्मकं विद्यते, तात्वादिस्थानं पुरुषे भवति. अतो वेदादिकं पुरुषकृतमेव नापौरुषेयमेव. तथाचाकाशादौ पुरुषक्रियां विना, अपौरुषेयवचनं श्रयते, तदापि अदृश्यपिशाचादि वक्त्राशका

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550