Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 482
________________ ललितविस्तरासंस्कृत टीका 66 66 विजयसिद्धिविनियोगा एवं न पुनः श्रुतार्थज्ञानमात्रम् " अत्र" श्रुतावबोधे सद्-अव्यभिचारि लिङ्ग - गमको हेतु:, किमेतावदेव नेत्याह - " तदुभाववृद्धिश्च " बोधभाववृद्धिश्च, काव्यभावज्ञवत्" काव्यभावज्ञस्येव काव्ये इति दृष्टान्तः, “अत एव " यथावदनवबोधादेव "हिः” स्फुटं “ महामिध्यादृष्टेः ” उक्तलक्षणस्य प्राप्तिरध्ययनादिरूपस्य श्रुतस्याप्राप्तिः, कुत इत्याह'तत्फलाभावाद् ” यथावदवबोधरूपफलाभावात्, किंवदित्याह - " अभव्यचिन्तामणिप्राप्तिवत् ” यथा हि अतिनिर्भाग्यतयाऽयोग्यस्य चिन्तामणिप्राप्तावपि तद्ज्ञानत्वाभावान्न तत्फलं, तथा अस्य श्रुतप्राप्तावपीति, भवतु नामैवं महामिध्यादृष्टेः, मिथ्यादृष्टस्तु का वार्त्तेत्याह - "मिथ्यादृष्टेस्तु” धर्म्मबीजाधानाद्यर्हस्य " भवेत् " स्यात्, " द्रव्यप्राप्तिः” भावश्रुतयोग्यद्रव्यश्रुतव्याप्तिः, की स्यात् द्रव्यप्राप्तिः १ - " आदरादिलिङ्गा" "आदर: करणे प्रीतिरित्यादिलिङ्गा “ भोगवती ” सम्यक्श्रुतार्थोपयोगरहिता, ननु मिध्यादृष्टिर्महामिध्यादृष्ट्योरनाभोगाद्यविशेषात्कः प्रतिविशेष इत्याह - " न तु " न पुनः अस्य " मिथ्यादृष्टेः " अस्थान एव " मोक्षपथप्रतिपन्थिन्येव भावे 'अभिनिवेशः " आग्रहः, स्थानाभिनिवेशस्यापि तस्य भावात्, कुत एवमित्याह" भव्यत्वयोगाद् ” भावश्रुतयोग्यत्वस्य भावाद् अस्थानाभिनिवेश एव हि न, तदभावाद्, अस्यैव हेतोः स्वरूपमाह अना- 66 १३४ 66 " तच्च" तत्पुनर्भव्यत्वं " एवलक्षणम् " अस्थाने स्थाने चाभिनिवेशस्वभावं इत्यनयोर्विशेषो ज्ञेयः, महामिध्यादृष्टेः, प्राप्तिरप्यस्यासंभविनी कुतस्तस्य फलचिन्तेत्याह - " प्राप्तं " लब्धं, चकार उक्तसमुच्चये, एतत् श्रुतम् " अभव्यैरपि " एकान्तमहामिध्यादृष्टिभिः किं पुनरन्यमिध्यादृष्टिभिः " असकृद् " अनेकशः, कुत इत्याह- " वचनप्रामाण्यात्' " सर्वजीवानामनन्तशो ग्रैवेयको पपातप्रज्ञापनाप्रामाण्याद् एवं तर्हि तत्फलमपि तेषु भविष्यतीत्याह - " न च " नैव " ततः” श्रुतप्राप्तेः “ किश्चित् ” फलमिति गम्यते, कुत इत्याह - " प्रस्तुतफललेशस्यापि ' प्रकृत यथावद्बोधरूपफलांशस्यापि, आस्तां सर्व्वस्य " असिद्धेः " अप्राप्तेः तत्सिद्भावल्प कालेनैव सर्वमुक्तिप्राप्तिप्रसङ्गात "" " “सिद्धत्वेनेति” सिद्धत्वेन फलाव्यभिचारप्रतिष्ठितत्व त्रिकोटिपरिशुद्धिभेदेन, इदमेव न ह्यतो विधिप्रवृत्त इत्यादिना वाक्यत्रयेण यथाक्रमं भावयति, सुगमं चैतन्नवरं - "विधिप्रतिषेधानुष्ठानपदार्थाविरोधेन चेति " विधिप्रतिषेधयोः कषरूपयोः अनुष्ठानस्य-छेदरूपस्य पदार्थस्य च - तापविषयस्याविरोधेन-पूर्वापराबाधया वर्त्तते, चकार उक्तसमुच्चयार्थः, अमुमेवाविरोघ त्रिकोटिपरिशुद्धिलक्षणं द्वाभ्यां वचनाभ्यां दर्शयति - "स्वर्गेत्यादिना " सुगमं चैतत् किन्तु स्वग्र्गार्थिना तपोदेवतापूजनादि, केवलार्थिना तु ध्यानाध्ययनादि कर्त्तव्यं, “असपत्नो योग इति” असपत्नः, परस्पराविरोधी स्वस्वकालानुष्ठानाद्योगः - स्वाध्यायादिसमाचारः. “ऐतिह्य चैतदिति” सम्प्रदायश्चायं यदुत तृतीया स्तुतिः श्रुतस्येति ॥ ॥ इति श्रीमुनिचन्द्रसूरिविरचितायां ललितविस्तरापञ्जिकायां श्रुतस्तवः समाप्तः ॥

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550