Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 480
________________ ललित विस्तरा संस्कृत टीका विधिप्रतिषेधानुष्ठान वञ्चयते व्याप्ताश्च सर्वे प्रवादा एतेन पदार्थाविरोधेन च वर्त्तते स्वर्गकेवलार्थिना तपोध्यानादि कर्त्तव्यं, सर्वे जीवा न हन्तव्या इति वचनात् समितिगुप्तिशुद्धा किया असपत्नो योग १३२ " " इति वचनात् उत्पादविगमधौव्ययुक्तं सत् एकं द्रव्यमनन्तपर्यायमर्थ इति वचनादिति, कायोत्सर्गप्रपञ्चः प्राग्वत् तथैव च स्तुतिः यदि परं श्रुतस्य समानजातीय बृंहकत्वात्, अनुभवसिद्धमेतत्, तज्ज्ञानां चलति समाधिरन्यथेति प्रकटं, ऐतिह्यं चैतदेवमतो न बाधनीयमिति व्याख्यातं पुष्करवरद्वीपार्छे इत्यादिसूत्रम् ॥ एषः पं०...‘“प्रणिधानेत्यादि” प्रणिधानम् - आशंसा एतच्छ्रुतधर्म्मवृद्धयभिलषणं, कीदृगित्याहअनाशंसाभावबीजं " अनाशंसा - सर्व्वेच्छोपरमः सैव भावः पर्यायः तस्य बीजं - कारणं, कथमित्याह -“ मोक्षप्रतिबन्धेन " मोक्षं प्रति हींद प्रार्थनं, स चानिच्छारूपो, नन्वप्रतिबन्धसाध्यो मोक्षः कथमित्थमपि तत्र प्रतिबन्धः श्रेयानित्याह - " अप्रतिबन्धः " अप्रतिबन्धसदृश " । मोक्षविषयप्रतिबन्धः प्रार्थनारूपः, कुत इत्याह - " असङ्गफलसंवेदनाद्” असङ्गस्य-रागद्वेषमोहाद्यविषयीकृतस्य फलस्य-आशंसनीयस्य संवेदनाद्, अनुभवाद्, अनीदृशफलालम्बनं हि प्रणिधानं प्रतिबन्धः परमपुरुषार्थलाभोपघातित्वात् ननु कथमयं नियमो १ यदुतेदं प्रणिधानमनाशंसाभावबीजमित्याहयथोदितश्रुतधर्म्मवृद्धेः ” सर्व्वज्ञोपज्ञश्रुतधर्म्मप्रकर्षात् " मोक्षः " अनाशंसारूपो यतो भवतीति गम्यते, अत्रापि कथमेकान्त ? इत्याह - " सिद्धत्वेन ” श्रुतधर्म्मवृद्धेर्मोक्ष प्रत्यवन्ध्यहेतुभावेन, इदमेव भावयति " न ” नैव " इह " मोक्षलक्षणे, फले " व्यभिचारो ” विसंवादः फलान्तरभावतो निष्फलतया वा श्रतधर्म्मवृद्धेरिति, अस्यैवासङ्गत्वसिद्ध्यर्थमाह - " असङ्गेन च ' रागद्वेषमोह लक्षणसङ्गाभावेन च, .6 एतत् " मोक्षफलं " संवेधते " सर्वैरेव मुमुक्षुभिः प्रतीयत इति, इत्थं श्रुतधर्म्मवृद्धेः फलसिद्धिमभिधाय अस्या एव हेतुसिद्धिमाह - " एवम् " उक्तप्रकारेण "" 66 चः " पुनरर्थे मिन्नक्रमच " सद्भावारोपणात् ” श्रुतवृद्धिप्रार्थनारूपशुद्धपरिणामस्याङ्गीकरणात् 66 ' तद्वृद्धिश्च " श्रुतधर्म्मवृद्धिः पुनर्भवतीति गम्यते, एतद्भावनायैवाह - " शुभं ” प्रशस्तं " एतत् " पुनः श्रुतधर्म्मवृद्धयाशंसा लक्षणं " अध्यवसानं " परिणामः, "अत्यर्थम्” अतीव, की मित्याहशालिबीजारोपणवत् " शालिबीजस्य पुनः पुनः निक्षेपणमित्र “शालिहेतुः " शालिफलनिमित्तं एतदेव भावयति - " दृष्टा उपलब्धा “ हिः ” यस्माद्, “एवं” श्रुतधर्म्मवृद्धिप्रार्थना 66 66 66 ני ""

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550