Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 486
________________ ललितविस्तरासंस्कृतटीका ऽनुष्ठानरूपजलान्नं प्राप्यते, भवपारकारक-चारित्र-नौः समधि-गम्यते, विवेकं विना सर्व शून्यं ज्ञेयम्, तत एष विवेकः संसाराब्धौ द्वीपरूपः, शङ्का श्रुतमात्रं नियतत्वेन विवेकग्रहणं, ततः किं, अस्मादस्य विशेषेण पृथग ज्ञापनम् ! समाधानम् =नैव, श्रुतं, कथञ्चित् पाठेऽपि,---यद्-यत्प्रकारविशिष्टार्थवत् यादृशार्थ, पुद्गलपरावर्त्ताधिकसंसारवान्-महामिथ्यादृष्टिः श्रुतबोधभावावरणरूपतभावाच्छादनाद्, अवबुध्यते-जानीते. तत्र दृष्टान्तः-यथा, अव्युत्पन्न: अहृदयो जनः, शृङ्गारहास्यकरुणादि-रससूचकवचनरहस्यरूपकाव्यभावं नाऽवबुध्यते. अतः कथं श्रुतमात्रनियतं विवेक ग्रहणमिति. शङ्का इदं वस्तुतत्त्वं, कस्मादित्थं भवति ! समाधानम्=तत्प्रवृत्त्याद्येव ह्यत्र सल्लिङ्गं यस्मात्कारणात्तत्राऽवबुद्धे श्रुतार्थे प्रवृत्ति-विघ्नजयसिद्धि-विनियोग एव, न पुनः श्रुतार्थज्ञानमात्रं, अत्र-श्रुतावबोधे सद्-अव्यभिचारिलिङ्ग-गमको हेतुः, . (१) अधिकृतधर्मस्थाने=( गुणस्थाने ) निपुणताऽतिशयसहितेन, उपकारसंगतेन, सम्यग्ज्ञानपूर्वकेण, अप्रमत्तभावेन, चञ्चलतारहितेन, अत्यन्ताधिकृतयत्नेन, या क्रिया क्रियते सा प्रवृत्तिः कथ्यते, (२) विघ्नजयः विघ्नेषु जयः, अर्थाद् धर्मकायें यद् विघ्नव्रातं समागच्छेत्तस्य पुरुषार्थेन त्यागः कार्यः स विघ्नजयः, विघ्नजयस्त्रिधा, हीनमध्यमोत्कृष्ट-भेदात् (१) मोक्षमार्गे गन्तुकामस्य जनस्य कण्टकसमानः क्षुधातृषातापशीतादिरूपानेक परिषहा विघ्नभूता भवन्ति, ततोऽनिरावाधा प्रवृति भवति, एष प्रथमः परिषहादिजयरूपो लघुविघ्नजयः (२) यथा रोगाऽऽक्रान्त इष्टस्थले न गन्तुं शक्नोति एष विघ्नजयः सुदर्शनचूर्णादि औषधैः-उपवासादिभिरुपायैः रोगान् दूरीकृत्य, इष्टस्थले गन्तुं शक्यते, तथा शारीरिक-क्षयादिरोगैः, अशक्तेन विशेषतो धर्मानुष्ठान-ध्यानादौ विघ्ना आयान्ति, तदूरीकरणाय पिंडनियुक्त्यादौ यथाकथितं 'हिताहारा मिताहाराः ' आत्मधर्माराधने हितकरं-विघ्नाभावो भवेत्तथा प्रमाणयुक्ताहारं गृह्णीयात् , शरीरं स्वस्थं भवेत् , चारित्राराधना समीचीना भवेत् । तथाऽप्रमत्तो भूत्वा, मनो दृढं कृत्वा, विहरेत्, किञ्च यथा बाह्यरोगाः शरीरं पीडयन्ति, तथाऽभ्यन्तररोगा अनेकशो जन्म-मरणादिकं कारयन्ति, भयंकरदुःखानि ददति, भावरोगान् हन्तुं भाववैद्योक्तं योगामृतमेवोपयोग्येव, तद्योगानुष्ठान कार्य, एतादृशभावनया सम्यगूधर्म आराध्यः ।

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550