________________
ललितविस्तरासंस्कृतटीका ऽनुष्ठानरूपजलान्नं प्राप्यते, भवपारकारक-चारित्र-नौः समधि-गम्यते, विवेकं विना सर्व शून्यं ज्ञेयम्, तत एष विवेकः संसाराब्धौ द्वीपरूपः,
शङ्का श्रुतमात्रं नियतत्वेन विवेकग्रहणं, ततः किं, अस्मादस्य विशेषेण पृथग ज्ञापनम् !
समाधानम् =नैव, श्रुतं, कथञ्चित् पाठेऽपि,---यद्-यत्प्रकारविशिष्टार्थवत् यादृशार्थ, पुद्गलपरावर्त्ताधिकसंसारवान्-महामिथ्यादृष्टिः श्रुतबोधभावावरणरूपतभावाच्छादनाद्, अवबुध्यते-जानीते.
तत्र दृष्टान्तः-यथा, अव्युत्पन्न: अहृदयो जनः, शृङ्गारहास्यकरुणादि-रससूचकवचनरहस्यरूपकाव्यभावं नाऽवबुध्यते. अतः कथं श्रुतमात्रनियतं विवेक ग्रहणमिति.
शङ्का इदं वस्तुतत्त्वं, कस्मादित्थं भवति !
समाधानम्=तत्प्रवृत्त्याद्येव ह्यत्र सल्लिङ्गं यस्मात्कारणात्तत्राऽवबुद्धे श्रुतार्थे प्रवृत्ति-विघ्नजयसिद्धि-विनियोग एव, न पुनः श्रुतार्थज्ञानमात्रं, अत्र-श्रुतावबोधे सद्-अव्यभिचारिलिङ्ग-गमको हेतुः,
. (१) अधिकृतधर्मस्थाने=( गुणस्थाने ) निपुणताऽतिशयसहितेन, उपकारसंगतेन, सम्यग्ज्ञानपूर्वकेण, अप्रमत्तभावेन, चञ्चलतारहितेन, अत्यन्ताधिकृतयत्नेन, या क्रिया क्रियते सा प्रवृत्तिः कथ्यते,
(२) विघ्नजयः विघ्नेषु जयः, अर्थाद् धर्मकायें यद् विघ्नव्रातं समागच्छेत्तस्य पुरुषार्थेन त्यागः कार्यः स विघ्नजयः, विघ्नजयस्त्रिधा, हीनमध्यमोत्कृष्ट-भेदात् (१) मोक्षमार्गे गन्तुकामस्य जनस्य कण्टकसमानः क्षुधातृषातापशीतादिरूपानेक परिषहा विघ्नभूता भवन्ति, ततोऽनिरावाधा प्रवृति भवति, एष प्रथमः परिषहादिजयरूपो लघुविघ्नजयः (२) यथा रोगाऽऽक्रान्त इष्टस्थले न गन्तुं शक्नोति एष विघ्नजयः सुदर्शनचूर्णादि औषधैः-उपवासादिभिरुपायैः रोगान् दूरीकृत्य, इष्टस्थले गन्तुं शक्यते, तथा शारीरिक-क्षयादिरोगैः, अशक्तेन विशेषतो धर्मानुष्ठान-ध्यानादौ विघ्ना आयान्ति, तदूरीकरणाय पिंडनियुक्त्यादौ यथाकथितं 'हिताहारा मिताहाराः ' आत्मधर्माराधने हितकरं-विघ्नाभावो भवेत्तथा प्रमाणयुक्ताहारं गृह्णीयात् , शरीरं स्वस्थं भवेत् , चारित्राराधना समीचीना भवेत् ।
तथाऽप्रमत्तो भूत्वा, मनो दृढं कृत्वा, विहरेत्, किञ्च यथा बाह्यरोगाः शरीरं पीडयन्ति, तथाऽभ्यन्तररोगा अनेकशो जन्म-मरणादिकं कारयन्ति, भयंकरदुःखानि ददति, भावरोगान् हन्तुं भाववैद्योक्तं योगामृतमेवोपयोग्येव, तद्योगानुष्ठान कार्य, एतादृशभावनया सम्यगूधर्म आराध्यः ।