________________
ललितविस्तरासंस्कृतटीका
(३) तृतीयप्रकारको विघ्नजयः कारणेन, उन्मार्गस्थितः मार्गभ्रष्टः दिग्भ्रमिमान् , कश्चित्पथिकोऽस्ति, त पथिकं पथज्ञोऽन्यः, भ्रमं दूरं कृत्वेष्ट स्थानेऽवश्यं नयति, तथा मोक्षमार्गपथिकः कश्चित् , कुगुरु-आदियोगतः सन्मार्गभ्रष्टः, उन्मार्गे चटितः भ्रान्तः, स सद्गुरुनिश्रया सम्यकशास्त्रं विचार्य, विवेकपूर्वकं सत्यज्ञानं प्राप्य यथाप्रवृत्ति-आदिकरणानि कृत्वा, सम्यग्दर्शनं प्राप्नोति, मिथ्यात्वरूपदिग्भ्रम निवारयति, एष द्वितीय उत्कृष्टो विघ्नजयः,
(३) सिद्धिा यानि यानि चारित्रादि-धर्मस्थानानि प्राप्तुमिष्टानि, तानि तानि अतिचारशून्यानि, पालनीयानि, अस्मदधिक-गुणसम्पन्नाचार्यादिगुरूणां, तपस्विआदीनां विनयवैयावृत्य-बहुमानानि कर्त्तव्यानि, अस्मदल्पगुणानां निर्गुणानां दुःखिजनानामुपरिष्टाद् दया कार्या, तेषां दुःखविनाशाय यथाशक्ति प्रयत्नः कार्यः, मध्यमगुणवतां जीवानां यथायोग्य दानमानादिः सत्कारो विधातव्यः, किञ्चाथिकापद्-विपद उद्धारः कार्यः, ईदृश उपकारः सद्यः फलदो भवति, ततोऽस्मादृशा निर्गुणजीवात्मानोऽहिंसा-सत्यादि-सम्यक्त्वादिगुणान् प्राप्नुवन्ति, सा सिद्धिः,
विनियोगः येषां, अहिंसा-सत्य-ब्रह्मचर्य-त्यागादि-गुणप्राप्ति-सिद्धिरूपः शुभाशयः प्रकटितः तैस्तैः, अन्यजीवात्मनां पुरतः सम्यक्त्वाहिंसादिगुणतो जायमानफलप्रभावादिकं वर्णनीयं-ज्ञापनीयमुपदेष्टव्यं, तथा स्वसमाना गुणवन्तः कार्याः, तत्कत प्रयत्नः पूर्णः कार्यः, यतः सम्प्रतिमहाराजवदुत्तरोत्तर-जन्मान्तरेषु श्रेष्ठसम्पदन्ते मोक्ष-सुखप्राप्तिरपि भवेत् , अन्यत्र सर्वत्र जनगणे शुभगुणसंस्थापनमेष विनियोगः ।।
(षो. ३०८-९-१०-११-१२ श्लोकभावः ) शङ्का=किं एतावता पर्याप्तमथवा किञ्चिदन्यत्कथनीयं स्यात्तद्दश्यताम् !
समाधानम्-किश्चान्यत् तद्भाववृद्धिश्च -श्रुतबोधभाववृद्धिश्च भवति यथा काव्यभावज्ञस्य काव्यभावरसवृद्धिर्भवति, तथाऽत्रैवं विज्ञेयम् ,
अत एव यथावदनवबोधादेव, स्पष्टमेव पुद्गलपरावर्त्ताधिकलक्षणमहामिथ्यादृष्टेः प्राप्तिरपि, अप्राप्तिः अध्ययनादिरूपस्य श्रुतस्याऽप्राप्तिः,
कमिति चेत्कथ्यते, यथावदवयोधरूपफलाभावरूपतत्फलाभावो वर्त्तते । अभव्यचिन्तामणिप्राप्तावपि दृष्टान्तः, यथा अत्यन्तनिर्भाग्यतयाऽयोग्यस्य चिन्तामणिप्राप्तावपि तद् (साधनादि-विधि) ज्ञानत्वस्याभावात् न तत्फलं, तथा, अस्य श्रुतप्राप्तावपीति,
शक्का भवतु नामैव महामिथ्यादृष्टेः, मिथ्यादृष्टेस्तु का वार्ता ! को विषयः !