________________
१४०
ललितविस्तरासंस्कृतटीका समाधानम्=धर्मबीजाधानाद्यहरूप-मिथ्यादृष्टेस्तु भावश्रुतयोग्यद्रव्यश्रुतप्राप्तिरूपद्रव्य प्राप्तिभवेत् .
प्रश्न-कीहक् स्यात्, द्रव्यश्रतप्राप्तिः ? समाधानं आदरादिलिङ्गगम्या, सम्यकश्रुतार्थोपयोगरहिता, अनाभोगवती, द्रव्यश्रुतप्राप्तिः,
शङ्का-मिथ्यादृष्टिमहामिथ्यादृष्टयोः, अनाभोगादेरविशेषात् – विशेषाभावात् कः प्रतिविशेषः !
• समाधानम् =अस्य-मिथ्यादृष्टेः, मोक्षमार्गविरोधिभावरूपाऽस्थान एव अभिनिवेशः (ममतारूपाग्रहो न भवति) स्थानाऽभिनिवेशस्यापि तस्य भवति.
शङ्का कथमिति चेत् !
समाधानम् उच्यते, भावश्रुतयोग्यत्वरूपभव्यत्वस्य योगात्=भावात्, अस्थानाऽभिनिवेश एवहि न, तथा च भावश्रुतयोग्यत्वाभावात् महामिथ्यादृष्टौ पूर्वकथितास्थानविषयकाऽभिनिवेशस्वभावरूपं भव्यत्वमस्ति, तदा मिथ्यादृष्टौ पूर्वकथितस्थानविषयकाऽभिनिवेशस्वभावरूपं भव्यस्वमस्तीति मिथ्यादृष्टि-महामिथ्यादृष्टयो विशेषो विज्ञेयः ।
शक्का-पूर्वकथितास्थानविषयकाऽभिनिवेशस्वभावभव्यत्वं वर्ततेऽतो महामिथ्यादृष्टौ द्रव्यश्रतप्राप्तिरप्यसम्भविनी कुतस्तस्य फलचिन्ता !
समाधानम् =' एतद् ' द्रव्यश्रुतम् , एकान्त ( सर्वथा ) महामिथ्यादृष्टिरूपैरभव्यै ( अभव्यत्वनामकानादिकालीनजातिविशिष्टैः) रपि किं पुनरन्यमिथ्यादृष्टिभिरनेकशः, प्राप्तमस्ति,
शङ्का कस्तत्र हेतु वा प्रामाण्यं किं वा! समाधानम् सर्वजीवानामनन्तशो अवेयकोपपातप्रज्ञापना-प्रामाण्यरूपं वचनप्रामाण्यं वर्तते, शङ्का एवं तर्हि श्रुतप्राप्तिफलमपि, तेषु-अभव्येषु भविष्यत्येव ? समाधानम् श्रुतप्राप्तेः किश्चित्फलं नैवाऽभव्येषु, शङ्का कथमिति चेत् !
समाधानम् = प्रकृत-यथावत् (यथार्थ) बोधरूपफलांशरूप-प्रस्तुतफललेशस्याऽपि, आस्तां सर्वस्य 'असिद्धेः' अभव्येषु, अप्राप्तिश्रपोऽसम्भवोऽस्ति. यदि प्रस्तुतफलांशफलसिद्धिर्भवेत्तदाऽल्पकालेनैव सर्वमुक्तिप्राप्ति-प्रसङ्गःस्यात् ।
तथा चैतत्-पूर्वोक्तवस्तुजातं, आगमवेत्तभिर्वचन=सर्वज्ञवचनानुसारेण परिभावनीयंपरितो विमर्शनीयम् ।
एवमन्येषामपि सूत्राणामर्थो वेदितव्य इति, दिङ्मात्रप्रदर्शनमेतत् ।