________________
ललितविस्तरासंस्कृतटीका
१४१ -अथ शास्त्रकारः 'सुयस्स भगवओ करेमि काउसग्गं' इत्यादि सूत्रस्य व्याख्या ससंगति-विवेचनं करोतीति
एवं प्रणिधानं कृत्वा, एतत्पूर्विका क्रिया फलायेति श्रुतत्यैव कायोत्सर्ग-संपादनार्थ पठति वा पठन्ति वा, 'सुयस्स भगवओ करेमि काउसग्गमित्यादि' यावद् बोसिरामि । व्याख्या पूर्ववत् , नवरं 'श्रुतस्य ' इति-प्रवचनस्य, सामायिकादि चतुर्दशपूर्वपर्यन्तस्य, 'भगवतः ' समग्रेश्वर्यादि-युक्तस्य । अर्थात् 'श्रुतधर्मों वर्धताम् , एवं श्रुतधर्मविषयकं प्रणिधान-चित्तस्यैकाग्रतां कृत्वा ( पूर्व प्रणिधानं कृतं ) प्रणिधानपूर्विका क्रिया फलजनिका भवति, केवला क्रिया न फलजनिका, केवलं प्रणिधानमपि न फलजनकं, प्रणिधानपूविका क्रियैव फलायेति,
___ अत्र क्रियारूपेणैव कायोत्सर्ग कर्त=श्रतस्यैव कायोत्सर्ग-सम्पादनार्थं पठति पठन्ति वा 'सुयस्स भगवओ करेमि काउसम्ग ' मित्यादि यावद् ‘वोसिरामि' । व्याख्या पूर्ववत् । क्रिया, फलं ददात्यपि, प्रणिधानपूविका चेचदा फलं यच्छेत् , प्रणिधानं यदि न भवेत्तदा क्रियायां, एकाग्रतासहितोपयोगाभावेन कथं फलमुत्पद्यतेति, प्रणिधानपूर्विकैव क्रिया फलदा, प्रणिधानकृतं कृतमिति न्यायेन, ____ नवरं 'श्रुतस्य ' इति प्रवचनस्य, सामायिकसूत्र-' करेमि भंते' रूपसूत्रत आरम्य चतुर्दशपूर्व-पर्यन्तस्य,
'भगवतः' समप्रैश्वर्यादियुक्तस्य, शुद्धत्व-सिद्धत्वापेक्षया, समग्रैश्वर्यादियोगः। श्रुतआगमेऽस्मिन्-समग्रैश्वर्यादि-योगस्तु श्रुतस्य, शुद्धत्व-सिद्धत्वकारणेनाऽस्ति, अर्थाद् , श्रुते फलाव्यभिचारत्वेन, प्रतिष्ठितत्वेन, त्रिकोटिपरिशुद्धत्वेन सिद्धत्वमस्ति, एतद्द्वस्तु, जैनेतरशास्त्रान्तरेषु नास्ति, तत इतरशास्त्रेभ्यः श्रुतस्यैश्वर्यम् , ईश्वरत्वं, ईशितृत्वम् , प्रभुत्वमस्ति,
इदमेव-सिद्धत्वं 'न यतो विधिप्रवृतः' इत्यादिना वाक्यत्रयेण यथाक्रम-फलाव्यभिचार-प्रतिष्ठितत्वं-त्रिकोटि-परिशुद्धिं भावयति
__ सिद्धत्वरूपफलाऽव्यभिचार:=(१) श्रुतस्य भगवत्त्वेन-सिद्धत्वेन समप्रैश्वर्यादियुक्तत्वकारणेन, विधिपूर्वकः प्रवृत्त:=प्रवृत्ति-क्रियावान् , फलेन नहि कञ्च्यते-फलावञ्चको योगः-श्रुतयोगो भवति.
(२) सिद्धत्वरूपप्रतिष्ठितत्व एतेन-श्रुतेन सह सर्वे प्रवादाः-नयवादा ( दर्शनानि ) व्याप्ताः-व्यापकतावन्तः, यतः-श्रुतं सर्वनयान् मन्यते, इतरदर्शनं, एकैकं नयं गृह्णाति.
(३) सिद्धत्वरूप-त्रिकोटि परिशुद्धत्वम् विधिप्रतिषेधानुष्ठानपदार्था-विरोधेन-चेति