________________
१४२
ललितविस्तरासंस्कृतटोका कषरूपयो विधिप्रतिषेधयोः, छेदरूपस्यानुष्ठानस्य, तापविषयस्य पदार्थस्य, अविरोधेन पूर्वापराऽबाधया एषु त्रिषु मिथः संघर्षों-विरोधो न, अर्थादनुष्ठानमाचारो विधिप्रतिषेधो न बाधते, एवं पदार्थः-सिद्धान्तव्यवस्था, विधिप्रतिषेधौ-अनुष्ठानमाचारं च न बाधेते, एवं कषच्छेदतापनामिकायां परीक्षायां सर्वथोत्तीर्ण यद् भवति श्रुतं तत् सिद्धत्वमाप्नोतीति,
अमुमेव त्रिकोटीपरिशुद्धिरूपमविरोधं-संवाद, द्वाभ्यां वचनाभ्यां दर्शयति स्वर्गार्थिना तपोदेवतापूजनादि, केवलज्ञानार्थिना तु ध्यानाऽध्ययनादि कर्त्तव्यं, इति कषपरीक्षायां विधिवाक्यं ।
'सर्वे जीवा न हन्तव्याः' इति प्रतिषेधवाक्यम् , छेदपरीक्षायां विधिप्रतिषेधावबाधमानमनुष्ठानं ज्ञेयं,
(१) — समितिगुप्ति-शुद्धा क्रिया' इति-अनुष्ठानवाक्यम् ।
(२) 'असपत्नो योगः ' योगः-मोक्षसाधको व्यापार-मात्रः मिथो यथा वाधको न भवेत्तथा व्यापारा व्यापार्या इति-अनुष्ठानवाक्यम् , असपत्नः-परस्पराविरोधी स्वस्वकालानुष्ठानाद्योगः-स्वाध्यायादि-समाचारः, तापपरीक्षा-पदार्थवाक्यम् यथा
(१) 'उत्पादव्यय-ध्रौव्ययुक्तं सत्'
(२) 'एकं द्रव्यमनन्तपर्यायमर्थः '-द्रव्यत्वेनैकं सत् द्रव्यं-अनन्तपर्यायात्मकोऽर्थःपदार्थ इति.
" कायोत्सर्ग-प्रपञ्चः प्राग्वत् , तथैव च स्तुतिः, यदि परं-श्रुतस्य, समानजातीयवहकत्वात् , अनुभवसिद्धमेतत् , तज्ज्ञानां, चलति समाधिरन्यथेति प्रकटं, ऐतिह्यं चेतदेवमतो न बाधनीयमिति, व्याख्यातं पुष्करवरद्वीपा?त्यादिसूत्रम् ॥"
इदमैदंपर्यम्=पूर्वोक्त-श्रुतवाक्यानि ज्ञापयन्ति, यद् , जैनश्रुतं विधिप्रतिषेधौ, अनुष्ठानमाचारश्च, पदार्थ इति त्रिकोटिमिथो बाधकतारहितत्वेन वर्तते,
अथ श्रुतस्य वन्दनाद्यर्थे कायोत्सर्गः कार्यः, तत्पूर्व जिनसर्वजिनानां वन्दनादि, कायोत्सर्गे कथनानुसारेण 'अन्नत्थ सूत्रं' कथयित्वा 'सागारं' कायोत्सर्ग पारयित्वा स्तुतिरपि पूर्वकथनानुसारेण, उच्चारणीया परंतु श्रुतस्य स्तुतिर्वाच्या, सा स्तुतिरेव, स्वसजातीयश्रुतस्तव-समर्थिका भवेत् , इदं तज्ज्ञातृणामनुभवसिद्धम् , 'पुक्खरवरदीवड्ढे' सूत्रतः श्रुतस्य स्तवं कृत्वा, श्रुतस्य वन्दनादिनिमित्ते कायोत्सर्गः कृतः, अथ स्तुतिः श्रुतस्य स्थाने, अन्यस्य कथिता स्यात्तदा प्रस्तुतं समर्थितं न स्यादच्चित्तस्य य एकः श्रुतगुणगानविषयकः शुभपरिणामप्रवाहः चलन्नामत आसीत् स हतो भवेदाच्चित्त-समाधिर्गतो भवेद् ।