________________
ललितविस्तगसंस्कृतटीका
१४३ किश्च एषा 'तृतीया स्तुतिः श्रुतस्यैव ' एवमैतिचं-सम्प्रदायः चैतदतो न वाधनीयमिति व्याख्यातं 'पुष्करवरद्वीपा॰ ' इत्यादि सूत्रम् ।।
( श्रुतस्य गुणगानावसरे वहन्त्यां धारायां श्रुतस्यैव स्तुतिः कथनीया, अन्यथा समाधिभङ्गो भवेत् इत्यादि शास्त्रवचनानुसारेण सर्वत्र विवेकं कृत्वा समाधीरक्षणीयः )
-अथ शास्त्रकारः ‘सिद्धाणं च वैयावच्चगराणं, अन्नत्थं कथयित्वा एक-नवकारस्य कायोत्सर्ग पारयित्वा शासनदेवदेवीनां स्मरण-संबंधिनी चतुर्थस्तुतिः कथनीयेति द्वादशोऽधिकारः, एवं, अष्टतो द्वादशपर्यन्तान् अधिकारान् दर्शयतः, तत् प्राग् 'सिद्धाणं बुद्धाणं सूत्रस्य व्याख्या
पुनरनुष्ठानपरम्पराफलभूतेभ्यस्तथाभावेन तक्रियाप्रयोजकेभ्यश्च सिद्धेभ्यो नमस्करणायेदं पठति पठन्ति वा, “सिद्धाणं बुद्धाणं, पारगयाणं परंपरगयाणं। लोयग्गमुवगयाणं, नमो सया सव्वसिद्धाणं ॥१॥ अस्य व्याख्या-सितं मातमेषामिति सिद्धाः निर्दग्धानेकभवकर्मेन्धना इत्यर्थः तेभ्यो नम इति योगः ते च सामान्यतः कर्मादिसिद्धा अपि भवन्ति, यथोक्तम्- “ कम्मे सिप्पे म विज्जा य, मंते जोगे य आगमे। अत्थ जत्ता अभिप्पाए, तवे कम्मक्खए इय ॥ १॥” इत्यादि, अतः कादिसिद्धव्यपोहायाह-“बुद्धेभ्यः” अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, सर्वज्ञसर्वदर्शिस्वभावबोधरूपा इत्यर्थः, एतेभ्यः-एते च संसारनिर्वाणोभयपरित्यागेन स्थितवन्तः कैश्चिदिष्यन्ते “न संसारे न निर्वाणे, स्थितो भुवनभूतये । अचिन्त्यः सर्वलोकानां चिन्तारत्नाधिको महान् ॥१॥" इति वचनात् , एतन्निरासायाह—" पारगतेभ्यः” पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य वा गताः पारगताः, तथा भव्यत्वाक्षिप्तसकलप्रयोजनसमाप्त्या निरवशेषकर्त्तव्यशक्तिविप्रमुक्ता इति