________________
१४४
ललितविस्तरासंस्कृतटीका
यदुक्तं भवति एतेभ्यः, एते च यदृच्छावादिभिः कैश्चिदक्रमसिद्धत्वेनापि गीयन्ते, यथोक्तम्-'नैकादिसङ्ख्याक्रमतो, वित्तप्राप्तिर्नियोगतः। दरिद्रराज्याप्तिसमा, तद्वन्मुक्तिः क्वचिन्न किम् ? ॥१॥” इत्येतद्व्यपोहायाह-" परम्परगतेभ्यः” परम्परया-ज्ञानदर्शनचारित्ररूपया मिथ्यादृष्टिसास्वादनसम्यग्मिथ्यादृष्टिअविरतसम्यग्दृष्टिविरताविरतप्रमत्ताप्रमत्तनिवृत्त्यनिवृत्तिबादर - सूक्ष्मोपशान्तक्षीणमोहसयोग्ययोगिगुणस्थानभेदभिन्नया गताः परम्परगता एतेभ्यः, एतेऽपि कैश्चिदनियतदेशा अभ्युपगम्यन्ते, 'यत्र क्लेशक्षयस्तत्र, विज्ञानमवतिष्ठते । बाधा च सर्वथाऽस्येह, तदभावान्न जातुचित् ॥१॥” इति वचनाद्, एतन्निराचिकीर्षयाऽऽह-"लोकाग्रमुपगतेभ्यः” लोकाग्रम्-ईषत्प्राग्भाराख्यं तदुपसामीप्येन निरवशेषकर्मविच्युत्या तदपराभिन्नप्रदेशतया गताःउपगताः, उक्तञ्च-जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का । अन्नीन्नमणाबाहं, चिट्ठति सुही सुहं पत्ता ॥१॥" तेभ्यः, आह-कथं पुनरिह सकलकर्मविप्रमुक्तानां लोकान्तं यावद्गतिर्भवति, भावे वा सर्वदेव कस्मान्न भवतीति, अत्रोच्यते, पूर्वावेशवशाद्दण्डादिचक्रभ्रमणवत् समयमेवैकमविरुद्धेति न दोष एतेभ्यः, एवंभूतेभ्यः किमित्याह-" नमः सदा सर्वसिद्धेभ्यः" नम इति क्रियापदं, “सदा" सर्वकालं, प्रशस्तभावपूरणमेतदयथार्थमपि फलवच्चित्राभिग्रहभाववदित्याचार्याः,
पं..." चित्राभिप्रहभाववदिति” यथा हि ग्लानप्रतिजागरणादिविषयश्चित्रोऽभिग्रहभावो नित्यमसम्पद्यमानविषयोऽपि शुभभावापूरकस्तथा नमः सदा सर्वसिद्धेभ्य इत्येतत्प्रणिधानं,
-सिद्धाणं बुद्धाणं सूत्रं (सिद्धस्तवः) - टी०...अथ (पुनः ) किश्चानुष्ठानानां परंपरा अपुनर्वन्धकावस्थात आरभ्यायोगिगुण