________________
ललितविस्तरामंस्कृतटीका स्थानपर्यन्तानुष्ठानपरम्परायाः फलभूतेभ्यः ( अनुष्ठानानां परम्परयाऽन्तिमफलस्वरूपेभ्यः ) तथाभावेन-सिद्धत्वफलपरिणामेन स्वकीयदृष्टान्त-द्वारा तत्तदनुष्ठानेषु, अन्येषां जीवानां प्रवृत्ती प्रयोजकेभ्यः-प्रेरकेभ्यश्च, नमस्करणायेदं पठति पठन्ति वा 'सिद्धाणं बुद्धाणं' इत्यादि सूत्र, तद्व्याख्या=सिद्ध-बुद्ध-पारगत-परम्परागत- लोकानमुपगत-सर्वसिद्धेभ्यो नमः सदा,
व्याख्या=(१) (प्रथमं विशेषणं)=सिद्धेभ्यः सितं-बद्धं कर्म ध्मातं-दग्धं एषामिति सिद्धाः-निर्दग्धानेकभवकर्मेन्धना इत्यर्थः, निर्दग्धानि भस्मीकृतानि-अनेकैर्भवै बैद्धानि कर्माण्येवेन्धनानि येषां ते-निर्दग्धानेकभवकर्मेन्धनेभ्यः सिद्धेभ्यः, तेभ्यः सिद्धेभ्यो नमः इति योगः,
ते च सिद्धाः, सामान्यतः कर्मादिसिद्धा अपि भवन्ति तथापि कर्मक्षयसिद्धेभ्योऽत्र सिद्धेभ्यो नमः । यथोक्तं
“कर्मणि शिल्पे च विद्यायां, मन्त्रे योगे चागमे ।। अर्थयात्राऽभिप्रायेषु, तपसि कर्मक्षये इति ।।" इत्यादि
(२) द्वितीयविशेषणम् -अतः कर्मादिसिद्धव्यपोहायाह 'बुद्धेभ्यः सिद्धेभ्यः अज्ञाननिद्राप्रसुप्ते अतत्त्व-अज्ञानमेव निद्रा, तत्र-निद्रायां-स्वरूपचैतन्यभानाभावदशायां प्रसुप्ते-प्रकर्षण निद्राधीने, जगति-संसारे, अपरोपदेशेन परकृतमुपदेशं विनैव-स्वभिन्नपरस्योपदेशापेक्षां विना, स्वयमेव जीवादिरूपं तत्त्वं (जीवादिनवादि-तत्त्वमात्र) बुद्धवन्तो-ज्ञातवन्तो, बुद्धाः-सर्वज्ञसर्वदर्शिस्वभाव-बोधरूपा:-केवलज्ञानकेवलदर्शनस्वभावबोधमयाः (अत्र निश्चयतो ज्ञानज्ञानिनोरभेदापेक्षयाऽर्थो ज्ञेयः, अत्र यथाऽर्हन्तस्तथा तत्र सिद्धौ, सिद्धाः-स्वयंसम्बुद्धाः साधनाकालापेक्षाऽत्र सिद्धानां परोपदेश-जन्यबोधसिद्धिरपीति ज्ञेया.)
(३) तृतीयविशेषणम् =सिद्धेभ्यः पारगतेभ्यः इति विशेषणं, एते च संसारनिर्वाणोभयपरित्यागेन स्थितवन्तः कैश्चिदिष्यन्ते,
एते-सिद्धबुद्धाः सिद्धाश्च संसाररूपं स्थानं परित्यज्य, निर्वाणरूपं स्थानं परित्यज्य, तटस्था-मध्यस्थाः कैश्चिद्वादिभिरिष्यन्ते । तत्र वचनप्रमाणं दीयते
"न संसारे, न निर्वाणे, स्थितो भुवनभूतये ।
अचिन्त्यः सर्वलोकानां, चिन्तारत्नाधिको महान् ॥” इति वचनात् एतन्निरासायाह 'पारगतेभ्यः' अर्थात्, न संसारे स्थितः, न निर्वाणे-मोक्षे स्थितः परन्तु भुवनस्य-जगतो,