________________
१४६
ललितविस्तरा संस्कृतटीका
भूतये - समुन्नतये मध्यस्थतया स्थितः सर्वलोकानामचिन्त्यः - अकल्प्योऽपि चिन्तामणितः फलापेक्षयाऽधिकः - परमः, महान् - महापुरुषो मन्यते ।
अर्थात्-(१) संसारस्य भवभ्रमणस्य पारं - अन्तं गताः - पारंगताः (२) प्रयोजनवातस्य वा=अनाद्यनन्तकालतोऽस्मिन् भवचक्रे भ्राम्यतो भव्यजीवस्य तथा भव्यत्वं यथा यथा परिपक्वं भवत् तथा तथा, आगतानि कार्याणि पूर्णीकृत्य सिध्यन्ति तथाभव्यत्वं परिपच्यमानं पूर्णपक्वतायाः शिखरे गम्यमानं, अन्तिम प्रयोजनमुक्तिरपि सिध्यति, एवं प्रयोजनानि सर्वाणि समाप्तानि भवन्त्यतः, मुक्तौ सिद्धत्वाऽनन्तरं न किमपि कार्य नावशिष्टं भवति, अर्थात् समस्त - निरवशेष कर्म-शक्ति-विमुक्ताः, पारगताः कथ्यन्ते, सकलकर्मक्षयानन्तरं, अव्यवहितत्वेननिसर्गत एकसमयेन सिद्धौ गत्वा तिष्ठन्ति तत्र स्वतः सहजतो ज्ञानादि - पर्यायश्चलति, कर्मशक्तिस्तत्र सर्वथा नश्यति, किमपि कर्त्तव्यं नास्ति, कर्मतत्कारणादीनां सर्वथाऽभावस्तत्रैव. कारणाभावात् कार्याऽभाव एव । एतेभ्यः सिद्धेभ्यो बुद्धेभ्यः पार- गतेभ्यो नमः |
परम्परगतेभ्यो नमः - एते च - सिद्धा बुद्धाः पारगताः कैश्चिद् यदृच्छावादिभिः, अक्रमसिद्धत्वेनाऽपि गीयन्ते, यथोक्तं
'नैकादिसङ्ख्याक्रमतो वित्तप्राप्ति नियोगतः ।
दरिद्रराज्याप्तिसमा, तद्वन्मुक्तिः क्वचिन्न किम् ? ॥ १ ॥
66
,
नियमतो - एको द्वौ इत्यादि - संख्यायाः क्रमेण धनप्राप्ति भवेदित्येवं नास्ति यथा दरि - द्रस्य राज्यातिः, तथाऽक्रमेण क्वचिज्जीवस्थाने मुक्तिः कथं न भवेदिति.
इत्येतत् सिद्धान्तखण्डनायाह = परम्परगतेभ्यः, परम्परया ( क्रमेण ) ज्ञान - दर्शन - चारित्ररूपया, मिथ्यादृष्टि - सास्वादन - सम्यग्मिथ्यादृष्टि - अविरत सम्यग्दृष्टि - विरताविरत - प्रमत्ताप्रमतनिवृत्त्यनिवृत्ति - बादर - सूक्ष्मोपशान्त क्षीणमोह - सयोग्ययोगिगुणस्थानभेदभिन्नया ( मुक्ति ) गताः परम्परगता एतेभ्यः, ( क्रमेण चतुर्दशगुणस्थानविकास ( अध्यात्मविकास) रूपसोपानपङ्क्तिसमारूढाः सन्तः सिद्धिं गताः स्थिताः सिद्धाः )
एतेऽपि कैश्चिदनियतदेशा अभ्युपगम्यन्ते,
८८
'यत्र क्लेश क्षयस्तत्र, विज्ञानमवतिष्ठते ।
बाधा च सर्वथाऽस्येह, तदभावान्न जातुचित् " ॥ १॥ इति वचनाद्,
कैश्वित्-नियत देशरहिता
एतन्निराचिकीर्षयाह - " लोकाप्रमुपगतेभ्यः "
अर्थात् = सिद्ध-बुद्ध-पारंगत - परंपरगता अध्येते, सिद्धाः