________________
ललितविस्तरासंस्कृतटीका
१४७
अभ्युपगम्यन्ते, तत्र तदागमप्रामाण्यम् , यत्र-यद्देशावच्छेदेन क्लेश ( कर्म ) क्षयस्तत्र-तद्देशावच्छेदेन विज्ञानं ( विज्ञानरूपात्मा ) अवतिष्ठते-तिष्ठति-स्थानं कुर्वन्नास्ते, अत्र-एतद्दे. शावच्छेदेन क्लेशस्याभावात् , सर्वथा क्लेशाभाववतो बाधा न जातुचित् -अत्रास्य क्लेशः आशयः संस्कारो नास्त्यतः सर्वथा वाधा-प्रतिबन्धकत्वं नास्त्येव.
एतद्वौद्धमतमस्ति यत् , क्लेशविशिष्टक्षणिकविज्ञानधारैषा, संसारः कथ्यते, निरुपप्लवचित्सन्ततिः मोक्षः कथ्यते, समस्तरागद्वेषादिक्लेशानां तथा तद्वासनासंस्काराणां विनाशाऽनन्तरं मुक्ते मृते सति विज्ञानस्य गमनागमनाभावो वर्त्तते यत्र तस्य कारणाभावः कारणम् । एतद् बौद्धमतस्य खण्डनायाह
'लोकाप्रमुपगतेभ्यः' लोकाग्रम् ईषत्प्रागभारास्य (सिद्धशिलाख्यं ) तदुप-सामीप्येन निरवशेषकर्मविच्युत्या 'तदपराभिन्नप्रदेशतया गताः, उपगताः । अर्थाद् , नवीनमुक्ताऽऽत्मा, सिद्धशिलाया उपरि, आकाशप्रदेशभागे पूर्वसिद्धात्मनाऽऽवगाढाऽऽकाशप्रदेशेषु, ज्योतिषिज्योतिलंगति, तथा एक-दीपकज्योतिषा सहान्यज्योति मिलति तत्र द्वयोरस्तित्वं स्वतन्त्रं, मात्रं समानतयक महाज्योति दृश्यते, एतावदेव, एवं एकसिद्धात्मनः प्रदेशैः सहान्यसिद्धात्मनः प्रदेशा मिलिताः सन्तः, द्वयोः स्वतंत्रताऽस्तित्वमस्ति, शुद्धात्मनोऽरूपित्वेन मिथः एकोऽन्य न बाधते, अत एतस्मिन्नेवाकाशभागेऽनन्ताः सिद्धात्मानः समाविष्टा भवन्ति, दीपज्योतिस्तु मूर्तंव तथापि यद्येकापवरके लक्षदीपानामपि ज्योतिः परस्परम् मिलित्वा समाविशति, तर्हि, अरूपिणां समावेशने कुतो बाधा ? कुतः प्रश्नः ? उक्तं च
" जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खय-विमुक्का ।
अन्नोन्नमणावाहं, चिठ्ठति सुही सुहं पत्ता ॥१॥" अर्थ : यत्र यदाकाशभागावच्छेदेन लोकाग्रप्रदेशावच्छेदेनैकः सिद्धः, तत्र तत्राकाशप्रदेशावच्छेदेन भवक्षयेण विमुक्ता सिद्धाः पूर्णसुखं प्राप्ता अनन्ता अन्योऽन्यमव्यावा, सुखिनः, तिष्ठन्ति,
प्रश्नः तेभ्यः, आह कथं पुनरिह सकलकर्मविप्रमुक्तानां लोकान्तं यावद् गति भवति, भावे वा सर्वदैव कस्मान्न भवतीति ? अर्थादत्र सकलकर्म क्षयेण सर्वथा कर्मविमुक्तात्मनां कस्यचिद् गतिप्रेरककर्मादिकारणत्वाभावेन, अस्मात्स्थानादुपरि लोकान्तपर्यन्तगामिनी गतिः कथं ? यदि भवति तदा सर्वदैव गतिः कथं न ?
प्रत्युत्तरम् सकलकर्मक्षयानन्तरं गतिकारणं जीवस्थपूर्वकर्मप्रेरितगतेरावेगः ( आवेशः ) तत्रोदाहरणं, यथा दण्डादिचक्रभ्रमणं, तथाहि कुम्भकारस्य दण्डेन चक्रे भ्रमणं भवति, तत्प