________________
१४८
ललितविस्तरासंस्कृतटीका श्चात् , अस्यावेगेन दण्डोत्थानानन्तरमपि, अल्पसमयं भ्रमणं चलति, तिष्ठति, एवं रिक्ततुम्ब जलस्याऽधस्तान्नीत्वा त्यागानन्तरं, अस्मिन् पूर्वाधोगतिप्रयोगस्यावेगेन पश्चादुपरि, आग. च्छति, एवं पूर्वकर्मण आवेगेन (शेन) मुक्तजीवोपरिगतिः सहजैव, एवमपि-एषा, एकसमय यावत् , अन्यसमये, आवेगाभावेन स्थिरताऽऽगच्छति, अर्थात् सदागतिविषयकप्रश्नोऽपि गच्छति निष्फलतां, यथा चक्रेऽपि सदा भ्रमणं न भवति, सिद्धबुद्ध पारगतपरम्परगतलोकाग्रमुपगतेभ्यो नमः ‘एवंभूतेभ्यः' किम् ! इत्याह 'नमः सदा सर्वसिद्धेभ्यः' । 'नमः' इति क्रियापदं, 'सदा' सर्वकालं, प्रशस्तभावपूरणमेतदयथार्थमपि फलवच्चित्राभिग्रहभाववदित्याचार्याः 'नमः' इत्यत्राव्ययपदमपि 'नमामि ' क्रिया पदसूचकम् 'चित्राभिग्रह भाववदि ' ति यथाहि ग्लानप्रतिजागरणादि ( वैयावृत्त्यादि ) विषयश्चित्रोऽभिग्रहभावो नित्यमसम्पद्यमानविषयोऽपि शुभभावापूरकस्तथा 'नमः सदा' सर्वसिद्धेभ्य इत्येतत् प्रणिधानं.
यथा केनचित्प्रतिज्ञातं यद् ग्लानस्य-व्याधितस्य मुनेः सदा वैयावृत्त्यं कार्यमिति. एष (वि) चित्राभिग्रहभावःकथ्यते, कथमिति चेदुच्यते, सदा-नित्यं वैयावृत्त्यविषयः कश्चिन्मुनि न सम्पद्यते, कदाचित् सम्पद्यतेऽपि. नित्यं न सम्पद्यते तथाऽपि सर्वकालं मुनि प्रति प्रशस्तभावःपूज्यतमभावः पूर्यते, बहुमानभावो वर्धमानो भवति. शुभभावो मनसि, नित्यमुत्थापितो भवति. -अथ सिद्धानां पंचदश भेदाः कथ्यन्ते
“ सर्वसिद्धेभ्यः” तीर्थसिद्धादिभेदभिन्नेभ्यः, यथोक्तम्“तित्थसिद्धा १ अतित्थसिद्धा २ तित्थगरसिद्धा ३ अतित्थगरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहियसिद्धा ७ थीलिंगसिद्धा ८ पुरिसलिंगसिद्धा ९ नपुंसकलिंगसिद्धा १० सलिंगसिद्धा ११ अण्णलिंगसिद्धा १२ गिहिलिंगसिद्धा १३ एगसिद्धा १४ अणेगसिद्धा १५” इति, तत्र तीर्थ-प्राग्व्यावर्णितस्वरूपं तच्चतुर्विधः श्रमणसङ्घः तस्मिन्नुत्पन्न ये सिद्धास्ते तीर्थसिद्धाः, अतीर्थे सिद्धा अतीर्थसिद्धाः तीर्थान्तरसिद्धा इत्यर्थः, श्रूयते च “ जिणंतरे साहुवोच्छेओ" ति तत्रापि जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिध्यन्त्येव, मरुदेवीप्रभृतयो वा